दद्याद्धात्रे विधात्रे बलिं द्वारे गृहस्य तु । अर्यम्णेऽथ बहिर्दद्याद्गृहेभ्यश्च समन्ततः ॥ २९.
नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् । पितॄणां निर्वपेच्चैव दक्षिणाभिमुखस्थितः ॥ २९.
गृहस्थस्तत्परो भूत्वा सुसमाहितमानसः । ततस्तोयमुपादाय तेष्वेवाचमनाय वै ॥ २९.
स्थानेषु निक्षिपेत्प्राज्ञस्तास्ता उद्दिश्य देवताः । एवं गृहबलिं कृत्वा गृहे हृहपतिः शुचिः ॥ २९.
आप्यायनाय भूतानां कुर्यादुत्सर्गमादरात् । श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥ २९.
वैश्वदेवं हि नामैतत्सायं प्रातरुदाहृतम् । आचम्य च ततः कुर्यात्प्राज्ञो द्वारावलोकनम् ॥ २९.
मुहूर्तस्याष्टमं भागमुदीक्ष्योऽप्यतिथिर्भवेत् । अतिथिं तत्र सम्प्राप्तमन्नाद्येनोदकेन च ॥ २९.
सम्पूजयेद्यथाशक्ति गन्धपुष्पादिभिस्तथा । न मित्रमतिथिं कुर्यान्नैकग्रामनिवासिनम् ॥ २९.
अज्ञातकुलनामानं तत्कालसमुपस्थितम् । बुभुक्षुमागतं श्रान्तं याचमानमकिञ्चनम् ॥ २९.
ब्राह्मणं प्राहुरतिथिं स पूज्यः शक्तितो बुधैः । न पृच्छेद्गोत्रचरणं स्वाध्यायञ्चापि पण्डितः ॥ २९.
शोभनाशोभनाकारं तं मन्येत प्रजापतिम् । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ २९.
तस्मिंस्तृप्ते नृयज्ञोत्थादृणान्मुच्येद्गृहाश्रमी । तस्माददत्त्वा यो भुङ्क्ते स्वयं किल्विषभुङ्नरः ॥ २९.
स पापं केवलं भुङ्क्ते पुरीषञ्चान्यजन्मनि । अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ २९.
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति । अप्यम्बुशाकदानेन यद्वाप्यश्नाति स स्वयम् ॥ २९.
पूजयेत्तु नरः शक्त्या तेनैवातिथिमादरात् । कुर्याच्चाहरहः श्राद्धमन्नाद्येनोदकेन च ॥ २९.
पितॄनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा । अन्नस्याग्रं तदुद्धृत्य ब्राह्मणायोपपादयेत् ॥ २९.
भिक्षाञ्च याचतां दद्यात्परिव्राड्ब्रह्मचारिणाम् । ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् ॥ २९.
अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः । भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा ॥ २९.
अदत्त्वा तु न भोक्तव्यं यथाविभवमात्मनः । पूजयित्वातिथीनिष्टान् ज्ञातीन् बन्धूंस्तथार्थिनः ॥ २९.
विकलान् बालवृद्धांश्च भोजयेच्चातुरांस्तथा । वाञ्छते क्षुत्परीतात्मा यच्चान्योऽन्नमकिञ्चनः ॥ २९.
कुटुम्बिना भोजनीयः समर्थे विभवे सति । श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ॥ २९.
सीदता यद्कृतं तेन तत्पापं स समश्नुते । सायं चैव विधिः कार्यः सूर्योढं तत्र चातिथिम् ॥ २९.
पूजयीत यथाशक्ति शयनासनभोजनैः । एवमुद्दवहतस्तात ! गार्हस्थ्यं भारमाहितम् ॥ २९.
स्कन्धे विधाता देवाश्च पितरश्च महर्षयः । श्रेयोऽभिवर्षिणः सर्वे तथैवातिथिबान्धवाः ॥ २९.
पशुपक्षिगणास्तृप्ता ये चान्ये सूक्ष्मकीटकाः । गाथाश्चात्र महाभाग ! स्वयमत्रिरगायत ॥ २९.
ता शृणुष्व महाभाग ! गृहस्थाश्रमसंस्थिताः । देवान् पितॄंश्चातिथींश्च तद्वत्सम्पूज्य बान्धवान् ॥ २९.
जामयश्च गुरुञ्चैव गृहस्थो विभवे सति । श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥ २९.
वैश्वदेवं हि नामैतत्कुर्यात्सायं तथा दिने । मांसमन्नं तथा शाकं गृहे यच्चोपसाधितम् । न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ॥ २९.
; क्रौष्टुकिरुवाच अर्वाक्स्त्रोतस्तु कथितो भवता यस्तु मानुषः । ब्रह्मन् ! विस्तरतो ब्रूहि ब्रह्मा समसृजद्यथा॥४९.
यथा च वर्णानसृजद्यद् गुणाश्च महामते । यच्च येषां स्मृतं कर्म विप्रादीनां वदस्व तत्॥४९.