वीरः कुवलयाश्वोऽयं पित्रे चासौ निवेदितः । ततो ननाम चरणौ नागेन्द्रस्य ऋतध्वजः ॥ २३.
तमुत्थाप्य बलाद्गाढं नागेन्द्रः परिषस्वजे । मूर्ध्नि चैनमुपाघ्राय चिरं जीवेत्युवाच सः ॥ २३.
निहतामित्रवर्गश्च पित्रोः सुश्रूषणं कुरु । वत्स ! धन्यस्य कथ्यन्ते परोक्षस्यापि ते गुणाः ॥ २३.
भवतो मम पुत्राभ्यामसामान्या निवेदिताः । त्वमेवानेन वर्धेथा मनोवाक्कायचेष्टितैः ॥ २३.
जीवितं गुणिनः श्लाघ्यं जीवन्नेव मृतोऽगुणः । गुणवान्निर्वृतिं पित्रोः शत्रुणां हृदयज्वरम् ॥ २३.
करोत्यात्महितं कुर्वन् विश्वासञ्च महाजने । देवताः पितरो विप्रा मित्रार्थिविकलादयः ॥ २३.
बान्धवाश्च तथेच्छन्ति जीवितं गुणिनश्चिरम् । परिवादनिवृत्तानां दुर्गतेषु दयावताम् । गुणिनां सफलं जन्म संश्रितानां विपद्गतैः ॥ २३.
जड उवाच एवमुक्त्वा स तं वीरं पुत्राविदमथाब्रवीत् । पूजां कुवलयाश्वस्य कर्तुकामो भुजङ्गमः ॥ २३.
स्नानादिकक्रमं कृत्वा सर्वमेव यथाक्रमम् । मधुपानादिसम्भोगमाहारञ्च यथेप्सितम् ॥ २३.
ततः कुवलयाश्वेन हृदयोत्सवभूतया । कथया स्वल्पकं कालं स्थास्यामो हृष्टचेतसः ॥ २३.
अनुमेन च तन्मौनो वचः शत्रुजितः सुतः । तथा चकार नृपतिः पन्नगानामुदारधीः ॥ २३.
समेत्य तैरात्मजभूपनन्दनैर् महोरगाणामधिपः स सत्यवाक् । मुदान्वितोऽन्नानि मधूनि चात्मवान् यथोपयोगं बुभुजे स भोगभुक् ॥ २३.
अलर्क उवाच यत्कार्यं पुरुषाणाञ्च गार्हस्थ्यमनुवर्तताम् । बन्धश्च स्यादकरणे क्रियाया यस्य चोच्छ्रितिः ॥ २९.
उपकाराय यन्नृणां यच्च वर्ज्यं गृहे सता । यथा च क्रियते तन्मे यथावत्पृच्छतो वद ॥ २९.
मदालसोवाच वत्स ! गार्हस्थ्यमादाय नरः सर्वमिदं जगत् । पुष्णाति तेन लोकांश्च स जयत्यभिवाञ्छितान् ॥ २९.
पितरो मुनयो देवा भूतानि मनुजास्तथा । कृमिकीटपतङ्गाश्च वयांसि पशवोऽसुराः ॥ २९.
गृहस्थमुपजीवन्ति ततस्तृप्तिं प्रयान्ति च । मुखं चास्य निरीक्षन्ते अपि नो दास्यतीति वै ॥ २९.
सर्वस्याधारभूतेयं वत्स ! धेनुस्त्रयीमयी । यस्यां प्रतिष्ठितं विश्वं विश्वहेतुश्च या मता ॥ २९.
ऋक्पृष्ठासौ यजुर्मध्या सामवक्त्रशिरोधरा । इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा ॥ २९.
शान्तिपुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता । आजीव्यमाना जगतां साक्षया नापचीयते ॥ २९.
स्वाहाकारस्वधाकारौ वषट्कारश्च पुत्रक ! । हन्तकारस्तथा चान्यस्तस्याःस्तनचतुष्टयम् ॥ २९.
स्वाहाकारं स्तनं देवाः पितरश्च स्वधामयम् । मुनयश्च वषट्कारं देवभूतसुरेतराः ॥ २९.
हन्तकारं मनुष्याश्च पिबन्ति सततं स्तनम् । एवमाप्याययत्येषा वत्स ! धेनुस्त्रयीमयी ॥ २९.
तेषामुच्छेदकर्ता च यो नरोऽत्यन्तपापकृत् । स तमस्यान्धतामिस्त्रे तामिस्त्रे च निमज्जति ॥ २९.
यश्चेमां मानवो धेनुं स्वैर्वत्सैरमरादिभिः । पाययत्युचिते काले स स्वर्गायोपपद्यते ॥ २९.
तस्मात्पुत्र ! मनुष्येण देवर्षिपितृमानवाः । भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा ॥ २९.
तस्मात्स्त्रातः शुचिर्भूत्वा देवर्षिपितृतर्पणम् । प्रजापतेस्तथैवादिभः काले कुर्यात्समाहितः ॥ २९.
सुमनोगन्धपुष्पैश्च देवानभ्यर्च्य मानवः । ततोऽग्नेस्तर्पणं कुर्याद्देयाश्च बलयस्तथा ॥ २९.
ब्रह्मणे गृहमध्ये तु विश्वेदेवेभ्य एव च । धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां बलिं क्षिपेत् ॥ २९.
प्राच्यां शक्राय याम्यायां यमाय बलिमाहरेत् । प्रतीच्यां वरुणायाथ सोमायोत्तरतो बलिम् ॥ २९.