अन्तर्गृहे तां सुदतीं स्त्रीभिर्गुप्तामधारयत् । तौ चानुदिनमागम्य पुत्रौ नागपतेः सुखम् ॥ २३.
ऋतध्वजेन सहितौ चिक्रीडातेऽमराविव । एकदा तु सुतौ प्राह नागराजो मुदान्वितः ॥ २३.
यन्मया पूर्वमुक्तन्तु क्रियते किं न तत्तथा । स राजपुत्रो युवयोरुपकारी ममान्तिकम् ॥ २३.
कस्मान्नानीयते वत्सावुपकाराय मानदः । एवमुक्तौ ततस्तेन पित्रा स्नेहवता तु तौ ॥ २३.
गत्वा तस्य पुरं सख्यू रेमाते तेन धीमता । ततः कुवलयाश्वं तौ कृत्वा किञ्चित्कथान्तरम् ॥ २३.
अब्रूतां प्रणयोपेतं स्वगेहगमनं प्रति । तावाह नृपपुत्रोऽसौ नन्विदं भवतोर्गृहम् ॥ २३.
धनवाहनवस्त्रादि यन्मदीयं तदेव वाम् । यत्तु वां वाञ्छितं दातुं धनं रत्नमथापि वा ॥ २३.
तद्दीयतां द्विजसुतौ यदि वां प्रणयो मयि । एतावताहं दैवेन वञ्चितोऽस्मि दुरात्मना ॥ २३.
यद्भवद्भ्यां ममत्वं नो मदीये क्रियते गृहे । यदि वां मत्प्रियं कार्यमनुग्राह्योऽस्मि वां यदि ॥ २३.
तद्धने मम गेहे च ममत्वमनुकल्प्यताम् । युवयोर्यन्मदीयं तन्मामकं युवयोः स्वकम् ॥ २३.
एतत्सत्यं विजानीतं युवां प्राणा बहिश्चराः । पुनर्नैवं विभिन्नार्थं वक्तव्यं द्विजसत्तमौ ॥ २३.
मत्प्रसादपरौ प्रीत्या शापितौ हृदयेन मे । ततः स्नेहार्द्रवदनौ तावुभौ नागनन्दनौ ॥ २३.
ऊचतुर्नृपतेः पुत्रं किञ्चित्प्रणयकोपितौ । ऋतध्वज ! न सन्देहो यथैवाह भवानिदम् ॥ २३.
तथैव चास्मन्मनसि नात्र चिन्त्यमतोऽन्यथा । किन्त्वावयोः स्वयं पित्रा प्रोक्तमेतन्महात्मना ॥ २३.
द्रष्टुं कुवलयाश्वं तमिच्छामीति पुनः पुनः । ततः कुवलयाश्वोऽसौ समुत्थाय वरासनात् । यथाह तातेति वदन् प्रणाममकरोद्भुवि ॥ २३.
कुवलयाश्व उवाच धन्योऽहमतिपुण्योऽहं कोऽन्योऽस्ति सदृशो मया । यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः ॥ २३.
तदुत्तिष्ठत गच्छामस्ताताज्ञां क्षणमप्यहम् । नातिक्रान्तुमिहेच्छामि पद्भ्यां तस्य शपाम्यहम् ॥ २३.
जड उवाच एवमुक्त्वा ययौ सोऽथ सह ताभ्यां नृपात्मजः । प्राप्तश्च गोमतीं पुण्यां निर्गम्य नगराद्बहिः ॥ २३.
तन्मध्येन ययुस्ते वे नागेन्द्रनृपनन्दनाः । मेने च राजपुत्रोऽसौ पारे तस्यास्तयोर्गृहम् ॥ २३.
ततश्चाकृष्य पातालं ताभ्यां नीतो नृपात्मजः । पाताले ददृशे चोभौ स पन्नगकुमारकौ ॥ २३.
फणामणिकृतोद्योतौ व्यक्तस्वस्तिकलक्षणौ । विलोक्य तौ सुरूपाङ्गौ विस्मयोत्फुल्ललोचनः ॥ २३.
विहस्य चाब्रवीत्प्रेम्णा साधु भो द्विजसत्तमौ । कथयामासतुस्तौ च पितरं पन्नगेश्वरम् ॥ २३.
शान्तमश्वतरं नाम माननीयं दिवौकसाम् । रमणीयं ततोऽपस्यत्पातालं स नृपात्मजः ॥ २३.
कुमारैस्तरुणैर्वृद्धैरुरगैरुपशोभितम् । तथैव नागकन्याभिः क्रीडन्तीभिरितस्ततः ॥ २३.
चारुकुण्डलहाराभिस्ताराभिर्गगनं यथा । गीतशब्दैस्तथान्यत्र वीणावेणुस्वनानुगैः ॥ २३.
मृदङ्गपणवातोद्यं हारिवेश्मशताकुलम् । वीक्षमाणः स पातालं ययौ शत्रुजितः सुतः ॥ २३.
सह ताभ्यामभीष्टाभ्यां पन्नगाभ्यामरिन्दमः । ततः प्रविश्य ते सर्वे नागराजनिवेशनम् ॥ २३.
ददृशुस्ते महात्मानमुरगाधिपतिं स्थितम् । दिव्यमाल्याम्बरधरं मणिकुण्डलभूषणम् ॥ २३.
स्वच्छमुक्ताफललताहारिहारोपशोभितम् । केयूरिणं महाभागमासने सर्वकाञ्चने ॥ २३.
मणिविद्रुमवैदूर्यजालान्तरितरूपके । स ताभ्यां दर्शितस्तस्य तातोऽस्माकमसाविति ॥ २३.