अनाख्यं षड्गुणाख्यञ्च वर्गाख्यं त्रिगुणाश्रयम् । नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥ २३.
सुखासुखं महासौख्यरूपं त्वयि विभाव्यते । एवं देवि ! त्वया व्याप्तं सकलं निष्कलञ्च यत् । अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ २३.
येऽर्था नित्या ये विनश्यन्ति चान्ये ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः । ये वा भूमौ येऽन्तरीक्षेऽन्यतो वा तेषां तेषां त्वत्त एवोपलब्धिः ॥ २३.
यच्चामूर्तं यच्च मूर्तं समस्तं यद्वा भूतेष्वेकमेकञ्च किञ्चित् । यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा त्वत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ २३.
जड उवाच एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती । प्रत्युवाच महात्मानं नागमश्वतरं ततः ॥ २३.
सरस्वत्युवाच वरं ते कम्बलभ्रातः प्रयच्छाम्युरगाधिप ! । तदुच्यतां प्रदास्यामि यत्ते मनसि वर्तते ॥ २३.
अश्वतर उवाच सहायं देहि देवि ! त्वं पूर्वं कम्बलमेव मे । समस्तस्वरसम्बन्धमुभयोः संप्रयच्छ च ॥ २३.
सरस्वत्युवाच सप्त स्वरा ग्रामरागाः सप्त पन्नगसत्तम ! । गीतकानि च सप्तैव तावतीश्चापि मूर्च्छनाः ॥ २३.
तालाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् । एतत्सर्वं भवान् गाता कम्बलश्च तथानघ ! ॥ २३.
ज्ञास्यसे मत्प्रसादेन भुजगेन्द्रापरं तथा । चतुर्विधं पदं तालं त्रिः प्रकारं लयत्रयम् ॥ २३.
गतित्रयं तथा तालं मया दत्तं चतुर्विधम् । एतद्भवान्मत्प्रसादात्पन्नगेन्द्रापरञ्च यत् ॥ २३.
अस्यान्तर्गतमायत्तं स्वरव्यञ्जनसंमितम् । तदशेषं मया दत्तं भवतः कम्बलस्य च ॥ २३.
तथा नान्यस्य भूर्लोके पाताले चापि पन्नग । प्रणेतारौ भवन्तौ च सर्वस्यास्य भविष्यतः । पाताले देवलोके च भूर्लोके चैव पन्नगौ ॥ २३.
जड उवाच इत्युक्त्वा सा तदा देवी सर्वजिह्वा सरस्वती । जगामादर्शनं सद्यो नागस्य कमलेक्षणा ॥ २३.
तयोश्च तद्यथावृत्तं भ्रात्रोः सर्वमजायत । विज्ञानमुभयोरग्र्यं पदतालस्वरादिकम् ॥ २३.
ततः कैलासशैलेन्द्रशिखरस्थितमीश्वरम् । गीतकैः सप्तभिर्नागौ तन्त्रीलयसमन्वितौ ॥ २३.
आरिराधयिषू देवमनङ्गाङ्गहरं हरम् । प्रचक्रतुः परं यत्नमुभौ संहतवाक्कलौ ॥ २३.
प्रातर्निशायां मध्याह्ने सन्ध्ययोश्चापि तत्परौ । तयोः कालेन महता स्तूयमानो वृषध्वजः ॥ २३.
तुतोष गीतकैस्तौ च प्राहेशो गृह्यतां वरः । ततः प्रणम्याश्वतरः कम्बलेन समं तदा ॥ २३.
व्यज्ञापयन्महादेवं शितिकण्ठमुमापतिम् । यदि नौ भगवान् प्रीतो देवदेवस्त्रिलोचनः ॥ २३.
ततो यथाभिलषितं वरमेनं प्रयच्छ नौ । मृता कुवलयाश्वस्य पत्नी देव ! मदालसा ॥ २३.
तेनैव वयसा सद्यो दुहितृत्वं प्रयातु मे । जातिस्मरा यथा पूर्वं तद्वत्कान्तिसमन्विता । योगिनी योगमाता च मद्गेहे जायतां भव ॥ २३.
महादेव उवाच यथोक्तं पन्नगश्रेष्ठ ! सर्वेमेतद्भविष्यति । मत्प्रसादादसन्दिग्धं श्रुणु चेदं भुजङ्गम ॥ २३.
श्राद्धे तु समनुप्राप्ते मध्यमं पिण्डमात्मना । भक्षयेथाः फणिश्रेष्ठ ! शुचिः प्रयतमानसः ॥ २३.
भक्षिते तु ततस्तस्मिन् भवतो मध्यमात्फणात् । समुत्पत्स्यति कल्याणी तथारूपा यथामृता ॥ २३.
कामञ्चेममभिध्याय कुरु त्वं पितृतर्पणम् । तत्क्षणादेव सा सुभ्रूः श्वसतो मध्यमात्फणात् ॥ २३.
समुत्पत्स्यति कल्याणी तथारूपा यथामृता । एतच्छ्रुत्वा ततस्तौ तु प्रणिपत्य महेश्वरम् ॥ २३.
रसातलं पुनः प्राप्तौ परितोषसमन्वितौ । तथा च कृतवान् श्राद्धं स नागः कम्बलानुजः ॥ २३.
पिण्डञ्च मध्यमं तद्वद्यथावदुपभुक्तवान् । तञ्चापि ध्यायः कामं ततः सा तनुमध्यमा ॥ २३.
जज्ञे निश्वसतः सद्यस्तद्रूपा मध्यमात्फणात् । न चापि कथयामास कस्यचित्स भुजङ्गमः ॥ २३.