तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः । ओङ्काराक्षरसंस्थानं यत्तु देवि ! स्थिरास्थिरम् ॥ २३.
तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च । त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ॥ २३.
त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा । त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः ॥ २३.
त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः । एतन्मात्रात्रयं देवि ! तव रूपं सरस्वति ॥ २३.
विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः । सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः ॥ २३.
तास्त्वदुच्चारणाद्देवि ! क्रियन्ते ब्रह्मवादिभिः । अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम् ॥ २३.
अविकार्यक्षयं दिव्यं परिणामविवर्जितम् । तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ॥ २३.
न चास्ये न च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते । इन्द्रोऽपि वसवो ब्रह्मा चन्द्रार्कौ ज्योतिरेव च ॥ २३.
विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् । सांख्यवेदान्तवादोक्तं बहुशाखास्थिरीकृतम् ॥ २३.
अनादिमध्यनिधनं सदसन्न सदेव यत् । एकन्त्वनेकं नाप्येकं भवभेदसमाश्रैतम् ॥ २३.
अनाख्यं षड्गुणाख्यञ्च वर्गाख्यं त्रिगुणाश्रयम् । नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥ २३.
सुखासुखं महासौख्यरूपं त्वयि विभाव्यते । एवं देवि ! त्वया व्याप्तं सकलं निष्कलञ्च यत् । अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ २३.
येऽर्था नित्या ये विनश्यन्ति चान्ये ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः । ये वा भूमौ येऽन्तरीक्षेऽन्यतो वा तेषां तेषां त्वत्त एवोपलब्धिः ॥ २३.
यच्चामूर्तं यच्च मूर्तं समस्तं यद्वा भूतेष्वेकमेकञ्च किञ्चित् । यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा त्वत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ २३.
जड उवाच एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती । प्रत्युवाच महात्मानं नागमश्वतरं ततः ॥ २३.
सरस्वत्युवाच वरं ते कम्बलभ्रातः प्रयच्छाम्युरगाधिप ! । तदुच्यतां प्रदास्यामि यत्ते मनसि वर्तते ॥ २३.
अश्वतर उवाच सहायं देहि देवि ! त्वं पूर्वं कम्बलमेव मे । समस्तस्वरसम्बन्धमुभयोः संप्रयच्छ च ॥ २३.
सरस्वत्युवाच सप्त स्वरा ग्रामरागाः सप्त पन्नगसत्तम ! । गीतकानि च सप्तैव तावतीश्चापि मूर्च्छनाः ॥ २३.
तालाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् । एतत्सर्वं भवान् गाता कम्बलश्च तथानघ ! ॥ २३.
ज्ञास्यसे मत्प्रसादेन भुजगेन्द्रापरं तथा । चतुर्विधं पदं तालं त्रिः प्रकारं लयत्रयम् ॥ २३.
गतित्रयं तथा तालं मया दत्तं चतुर्विधम् । एतद्भवान्मत्प्रसादात्पन्नगेन्द्रापरञ्च यत् ॥ २३.
अस्यान्तर्गतमायत्तं स्वरव्यञ्जनसंमितम् । तदशेषं मया दत्तं भवतः कम्बलस्य च ॥ २३.
तथा नान्यस्य भूर्लोके पाताले चापि पन्नग । प्रणेतारौ भवन्तौ च सर्वस्यास्य भविष्यतः । पाताले देवलोके च भूर्लोके चैव पन्नगौ ॥ २३.
जड उवाच इत्युक्त्वा सा तदा देवी सर्वजिह्वा सरस्वती । जगामादर्शनं सद्यो नागस्य कमलेक्षणा ॥ २३.
तयोश्च तद्यथावृत्तं भ्रात्रोः सर्वमजायत । विज्ञानमुभयोरग्र्यं पदतालस्वरादिकम् ॥ २३.
ततः कैलासशैलेन्द्रशिखरस्थितमीश्वरम् । गीतकैः सप्तभिर्नागौ तन्त्रीलयसमन्वितौ ॥ २३.
आरिराधयिषू देवमनङ्गाङ्गहरं हरम् । प्रचक्रतुः परं यत्नमुभौ संहतवाक्कलौ ॥ २३.
प्रातर्निशायां मध्याह्ने सन्ध्ययोश्चापि तत्परौ । तयोः कालेन महता स्तूयमानो वृषध्वजः ॥ २३.
तुतोष गीतकैस्तौ च प्राहेशो गृह्यतां वरः । ततः प्रणम्याश्वतरः कम्बलेन समं तदा ॥ २३.
व्यज्ञापयन्महादेवं शितिकण्ठमुमापतिम् । यदि नौ भगवान् प्रीतो देवदेवस्त्रिलोचनः ॥ २३.