जड उवाच इति वाक्यं तयोः श्रुत्वा विमर्शमगमत्पिता । विमृश्य चाह तौ पुत्रौ नागराट्प्रहसन्निव ॥ २३.
नागराडश्वतर उवाच यद्यशक्यमिति ज्ञात्वा न करिष्यन्ति मानवाः । कर्मण्युद्यममुद्योगहान्या हानिस्ततः परम् ॥ २३.
आरभेत नरः कर्म स्वपौरुषमहापयन् । निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवस्थिता ॥ २३.
तस्मादहं तथा यत्नं करिष्ये पुत्रकावितः । तपश्चर्यां समास्थाय यथैतत्साध्यतेऽचिरात् ॥ २३.
जड उवाच एवमुक्त्वा स नागेन्द्रः प्लक्षावतरणं गिरेः । तीर्थं हिमवतो गत्वा तपस्तेपे सुदुश्चरम् ॥ २३.
तुष्टाव गीर्भिश्च ततस्तत्र देवीं सरस्वतीम् । तन्मना नियताहारो भूत्वा त्रिषवणाप्लुतः ॥ २३.
अश्वतर उवाच जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् । स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥ २३.
सदसद्देवि ! सत्किञ्चिन्मोक्षवच्चार्थवत्पदम् । तत्सर्वं त्वय्यसंयोगं योगवद्देवि ! संस्थितम् ॥ २३.
त्वमक्षरं परं देवि ! यत्र सर्वं प्रतिष्ठितम् । अक्षरं परमं देवि ! संस्थितं परमाणुवत् ॥ २३.
अक्षरं परमं ब्रह्म विश्वञ्चैतत्क्षरात्मकम् । दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः ॥ २३.
तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः । ओङ्काराक्षरसंस्थानं यत्तु देवि ! स्थिरास्थिरम् ॥ २३.
तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च । त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ॥ २३.
त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा । त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः ॥ २३.
त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः । एतन्मात्रात्रयं देवि ! तव रूपं सरस्वति ॥ २३.
विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः । सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः ॥ २३.
तास्त्वदुच्चारणाद्देवि ! क्रियन्ते ब्रह्मवादिभिः । अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम् ॥ २३.
अविकार्यक्षयं दिव्यं परिणामविवर्जितम् । तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ॥ २३.
न चास्ये न च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते । इन्द्रोऽपि वसवो ब्रह्मा चन्द्रार्कौ ज्योतिरेव च ॥ २३.
विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् । सांख्यवेदान्तवादोक्तं बहुशाखास्थिरीकृतम् ॥ २३.
अनादिमध्यनिधनं सदसन्न सदेव यत् । एकन्त्वनेकं नाप्येकं भवभेदसमाश्रैतम् ॥ २३.
अनाख्यं षड्गुणाख्यञ्च वर्गाख्यं त्रिगुणाश्रयम् । नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥ २३.
सुखासुखं महासौख्यरूपं त्वयि विभाव्यते । एवं देवि ! त्वया व्याप्तं सकलं निष्कलञ्च यत् । अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ २३.
येऽर्था नित्या ये विनश्यन्ति चान्ये ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः । ये वा भूमौ येऽन्तरीक्षेऽन्यतो वा तेषां तेषां त्वत्त एवोपलब्धिः ॥ २३.
यच्चामूर्तं यच्च मूर्तं समस्तं यद्वा भूतेष्वेकमेकञ्च किञ्चित् । यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा त्वत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ २३.
जड उवाच एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती । प्रत्युवाच महात्मानं नागमश्वतरं ततः ॥ २३.
सरस्वत्युवाच वरं ते कम्बलभ्रातः प्रयच्छाम्युरगाधिप ! । तदुच्यतां प्रदास्यामि यत्ते मनसि वर्तते ॥ २३.
अश्वतर उवाच सहायं देहि देवि ! त्वं पूर्वं कम्बलमेव मे । समस्तस्वरसम्बन्धमुभयोः संप्रयच्छ च ॥ २३.
सरस्वत्युवाच सप्त स्वरा ग्रामरागाः सप्त पन्नगसत्तम ! । गीतकानि च सप्तैव तावतीश्चापि मूर्च्छनाः ॥ २३.
तालाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् । एतत्सर्वं भवान् गाता कम्बलश्च तथानघ ! ॥ २३.
ज्ञास्यसे मत्प्रसादेन भुजगेन्द्रापरं तथा । चतुर्विधं पदं तालं त्रिः प्रकारं लयत्रयम् ॥ २३.