विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् । प्रागसिद्धाभवादीनां विद्याः साध्यति व्रती॥७.
साध्यमानाः क्षमामौनचित्तसंयमिनामुना । ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया॥७.
तेजस्वी कौशिकश्वेष्ठो वयमस्य सुदुर्बलाः । क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिभाति मे॥७.
अथवायं नृपः प्राप्तो मा भैरिति वदन् मुहुः । इममेव प्रविश्याशु साधयिष्ये यथेप्सितम्॥७.
इति संचिन्त्य रौद्रेण विघ्नराजेन वै ततः । तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत्॥७.
कोऽयं बघ्नाति वस्त्रान्ते पावकं पापकृन्नरः । बलोष्णतेजसा दीप्ते मयि पत्यावुपस्थिते॥७.
सोऽद्य मत्कार्मुकाक्षेप-विदीपितदिगन्तरैः । शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति॥७.
विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः । क्रुद्धे चर्षिवरे तस्मिन् नेशुर्विद्याः क्षणेन ताः॥७.
स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् । भीतः प्रावेपतात्यर्थं सहसाश्वत्थपर्णवत्॥७.
स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् । ततः स राजा विनयात् प्रणिपत्याभ्यभाषत॥७.
भगवन्नेष धर्मो मे नापराधो मम प्रभो । न क्रोद्धुमर्हसि मुने निजधर्मरतस्य मे॥७.
दातव्यं रक्षितव्यं च धर्मज्ञेन महीक्षिता । चापं चोद्यम्य योद्धव्यं धर्मशास्त्रानुसारतः॥७.
; विश्वामित्र उवाच दातव्यं कस्य के रक्ष्याः कैर्योद्धव्यं च ते नृप । क्षिप्रमेतत् समाचक्ष्व यद्यधर्मभयं तव॥७.
; हरिश्चन्द्र उवाच दातव्यं विप्रमुख्येभ्यो ये चान्ये कृशवृत्तयः । रक्ष्या भीताः सदा युद्धं कर्तव्यं परिपन्थिभिः॥७.
; विश्वामित्र उवाच यदि राजा भवान् सम्यग्राजधर्ममवेक्षते । निर्वेष्टुकामो विप्रोऽहं दीयतामिष्टदक्षिणा॥७.
; पक्षिण ऊचुः एतद्राजा वचः श्रुत्वा प्रहृष्टेनान्तरात्मना । पुनर्जातमिवात्मानं मेने प्राह च कौशिकम्॥७.
उच्यतां भगवन् यत्ते दातव्यमविशङ्कितम् । दत्तमित्येव तद्विद्धि यद्यपि स्यात् सुदुर्लभम्॥७.
हिरण्यं वा सुवर्णं वा पुत्रः पत्नी कलेवरम् । प्राणा राज्यं पुरं लक्ष्मीर्यदभिप्रेतमात्मनः॥७.
; विश्वामित्र उवाच राजन् प्रतिगृहीतोऽयं यस्ते दत्तः प्रतिग्रहः । प्रयच्छ प्रथमं तावद् दक्षिणां राजसूयिकीम्॥७.
; राजोवाच ब्रह्मंस्तामपि दास्यामि दक्षिणां भवतो ह्यहम् । व्रियतां द्विजशार्दूल यस्तवेष्टः प्रतिग्रहः॥७.
; विश्वामित्र उवाच ससागरां धरामेतां सभूभृद्ग्रामपत्तनाम् । राज्यं च सकलं वीर रथाश्व-गजसङ्कुलम्॥७.
कोष्ठागारं च कोषं च यच्चान्यद्विद्यते तव । विना भार्यां च पुत्रं च शरीरं च तवानघ॥७.
धर्मं च सर्वधर्मज्ञ यो यान्तमनुगच्छति । बहुना वा किमुक्तेन सर्वमेतत् प्रदीयताम्॥७.
; पक्षिण ऊचुः प्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः । तस्यर्षेर्वचनं श्रुत्वा तथेत्याह कृताञ्जलिः॥७.
; विश्वामित्र उवाच सर्वस्वं यदि मे दत्तं राज्यमुर्वो बलं धनम् । प्रभुत्वं कस्य राजर्षे राज्यस्थे तापसे मयि॥७.
; हरिश्चन्द्र उवाच यस्मिन्नपि मया काले ब्राह्मन् दत्ता वसुन्धरा । तस्मिन्नपि भवान् स्वामी किमुताद्य महीपतिः॥७.
; विश्वामित्र उवाच यदि राजंस्त्वया दत्ता मम सर्वा वसुन्धरा । यत्र मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि॥७.
श्रोणीसूत्रादिसकलं मुक्त्वा भूषणसंग्रहम् । तरुवल्कलमाबध्य सह पत्न्या सुतेन च॥७.
; पक्षिण ऊचुः तथेति चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे । स्वपत्न्या शैव्यया सार्धं बालकेनात्मजेन च॥७.
व्रजतः स ततो रुद्ध्वा पन्थानं प्राह तं नृपम् । क्व यास्यसीत्यदत्त्वा मे दक्षिणां राजसूयिकीम्॥७.