कर्मणा मनसा वाचा भर्तुराराधनं प्रति । यथा ममोद्यमो नित्यं तथायं जीवतां द्विजः॥१६.
पुत्र उवाच ततो विप्रः समुत्तस्थौ व्याधिमुक्तः पुनर्युवा । स्वभाभिर्भासयन् वेश्म वृन्दारक इवाजरः॥१६.
ततोऽपतत् पुष्पवृष्टिर्देववाद्यादिनिस्वनः । लेभिरे च मुदं देवा अनसूयामथाब्रुवन्॥१६.
देवा ऊचुः वरं वृणीष्व कल्याणि देवकार्यं महत् कृतम् । त्वया यस्मात् ततो देवा वरदास्ते तपस्विनि॥१६.
अनसूयोवाच यदि देवाः प्रसन्ना मे पितामहपुरोगमाः । वरदा वरयोग्या च यद्यहं भवतां मता॥१६.
तद्यान्तु मम पुत्रत्वं ब्रह्म-विष्णु-महेश्वराः । योगञ्च प्राप्नुयां भर्तृसहिता क्लेशमुक्तये॥१६.
एवमस्त्विति तां देवा ब्रह्म-विष्णु-शिवादयः । प्रोक्त्वा जग्मुर्यथान्यायमनुमान्य तपस्विनीम्॥१६.
त्रयोविंशोऽध्यायः पुत्रावूचतुः स राजपुत्रः संप्राप्य वेगादात्मपुरं ततः । पित्रोर्ववन्दिषुः पादौ दिदृक्षुश्च मदालसाम् ॥ २३.
ददर्श जनमुद्विग्नमप्रहृष्टमुखं पुरः । पुनश्च विस्मिताकारं प्रहृष्टवदनं ततः ॥ २३.
अन्यमुत्फुल्लनयनं दिष्ट्या दिष्ट्येतिवादिनम् । परिष्वजन्तमन्योन्यमतिकौतूहलान्वितम् ॥ २३.
चिरं जीवोरुकल्याण ! हतास्ते परिपन्थिनः । पित्रोः प्रह्लादय मनस्तथास्माकमकण्टकम् ॥ २३.
पुत्रावूचतुः इत्येवं वादिभिः पौरैः पुरः पृष्ठे च संवृतः । तत्क्षणप्रभवानन्दः प्रविवेश पितुर्गृहम् ॥ २३.
पिता च तं परिष्वज्य माता चान्ये च बान्धवाः । चिरं जीवेति कल्याणीर्ददुस्तस्मै तदाशिषः ॥ २३.
प्रणिपत्य ततः सोऽथ किमेतदिति विस्मितः । पप्रच्छ पितरं तात ! सोऽस्मै सम्यक्तदुक्तवान् ॥ २३.
स भार्यां तां मृतां श्रुत्वा हृदयेष्टां मदालसाम् । पितरौ च पुरो दृष्ट्वा लज्जाशोकाब्धिमध्यगः ॥ २३.
चिन्तयामास सा बाला मां श्रुत्वा निधनं गतम् । तत्याज जीवितं साध्वी धिङ्मां निष्ठुरमानसम् ॥ २३.
नृशंसोऽहमनार्योऽहं विना तां मृगलोचनाम् । मत्कृते निधनं प्राप्तां यज्जीवाम्यतिनिर्घृणः ॥ २३.
पुनः स चिन्तयामास परिसंस्तभ्य मानसम् । मोहोद्गममपास्याशु निः श्वस्योच्छवस्य चातरः ॥ २३.
मृतेति सा मन्निमित्तं त्यजामि यदि जीवितम् । किं मयोपकृतं तस्याः श्लाघ्यमेतत्तु योषिताम् ॥ २३.
यदि रोदिमि वा दीनो हा प्रियेति ! वदन्मुहुः । तथाप्यश्लाघ्यमेतन्नो वयं हि पुरुषाः किल ॥ २३.
अथ शोकजडो दीनोऽसृजा हीनो मलान्वितः । विपक्षस्य भविष्यामि ततः परिभवास्पदम् ॥ २३.
मयारिशातनं कार्यं राज्ञः शुश्रुषणं पितुः । जीवितं तस्य चायत्तं सन्त्याज्यं तत्कथं मया ॥ २३.
किन्त्वत्र मन्ये कर्तव्यस्त्यागो भागस्य योषितः । स चापि नोपकाराय तन्वङ्ग्याः किन्तु सर्वथा ॥ २३.
मया नृशंस्यं कर्तव्यं नोपकार्यपकारि च । या मदर्थेऽत्यजत्प्राणांस्तदर्थेऽल्पमिदं मम ॥ २३.
पुत्रावूचतुः इति कृत्वा मतिं सोऽथ निष्पाद्योदकदानिकम् । क्रियाश्चानन्तरं कृत्वा प्रत्युवाच ऋतध्वजः ॥ २३.
ऋतध्वज उवाच यदि सा मम तन्वङ्गी न स्याद्भार्या मदालसा । अस्मिन् जन्मनि नान्या मे भवित्री सहचारिणी ॥ २३.
तामृते मृगशावाक्षीं गन्धर्वतनयामहम् । न भोक्ष्ये योषितं काञ्चिदिति सत्यं मयोदितम् ॥ २३.
सद्धर्मचारिणीं पत्नीं तां मुक्त्वा गजगामिनीम्,। काञ्चिन्नाङ्गीकरिष्यामीत्येतत्सत्यं मयोदितम् ॥ २३.
पुत्रावूचतुः परित्यज्य च स्त्रीभोगान् तात ! सर्वंस्तया विना । क्रीडन्नास्ते समं तुल्यैर्वयस्यैः शीलसम्पदा ॥ २३.
एतत्तस्य परं कार्यं तात ! तत्केन शक्यते । कर्तुमत्यर्थदुष्प्राप्यमीश्वरैः किमुतेतरैः ॥ २३.