पुत्र उवाच तस्यास्तद्वचनं श्रुत्वा प्रतिपूज्य तथादरात् । प्रत्युवाचात्रिपत्नीं तामनसूयामिदं वचः॥१६.
धन्यास्म्यनुगृहीतास्मि देवैश्चाप्यवलोकिता । यन्मे प्रकृतिकल्याणि ! श्रद्धां वर्धयसे पुनः॥१६.
जानाम्येतन्न नारीणां काचित् पतिसमा गतिः । तत्प्रीतिश्चोपकाराय इह लोके परत्र च॥१६.
पतिप्रसादादिह च प्रेत्य चैव यशस्विनि । नारी सुखमवाप्नोति नार्या भर्ता हि देवता॥१६.
सा त्वं ब्रूहि महाभागे ! प्राप्ताया मम मन्दिरम् । आर्याया यन्मया कार्यं तथार्येणापि वा शुभे॥१६.
अनसूयोवाच एते देवाः सहेन्द्रेण मामुपागम्य दुः खिताः । त्वद्वाख्यापास्तसत्कर्मदिननक्तनिरूपणाः॥१६.
याचन्तेऽहर्निशासंस्थां यथावदविखण्डिताम् । अहं तदर्थमायाता शृणु चैतद्वचो मम॥१६.
दिनाभावात् समस्तानामभावो यागकर्मणाम् । तदभावात् सुराः पुष्टिं नोपयान्ति तपस्विनि॥१६.
अह्नश्चैव समुच्छेदादुच्छेदः सर्वकर्मणाम् । तदुच्छेदादनावृष्ट्या जगदुच्छेदमेष्यति॥१६.
तत् त्वमिच्छसि चेदेतत् जगदुद्धर्तुमापदः । प्रसीद साध्वि ! लोकानां पूर्ववद्धर्ततां रविः॥१६.
ब्राह्मण्युवाच माण्डव्येन महाभागे ! शप्तो भर्ता ममेश्वरः । सूर्योदये विनाशं त्वं प्राप्स्यसीत्यतिमन्युना॥१६.
अनसूयोवाच यदि वा रोचते भद्रे ! ततस्त्वद्वचनादहम् । करोमि पूर्ववद्देहं भर्तारञ्च नवं तव॥१६.
मया हि सर्वथा स्त्रीणां माहात्म्यं वरवर्णिनि । पतिव्रतानामाराध्यमिति संमानयामि ते॥१६.
पुत्र उवाच तथेत्युक्ते तया सूर्यमाजुहाव तपस्विनी । अनसूयार्घ्यमुद्यम्य दशरात्रे तदा निशि॥१६.
ततो विवस्वान् भगवान् फुल्लपद्मारुणाकृतिः । शैलराजानमुदयमारुरोहोरुमण्डलः॥१६.
समनन्तरमेवास्या भर्ता प्राणैर्व्ययुज्यत । पपात च महीपृष्ठे पतन्तं जगृहे च सा॥१६.
अनसूयोवाच न विषादस्त्वया भद्रे ! कर्तव्यः पश्य मे बलम् । पतिशुश्रूषयावाप्तं तपसः किं चिरेण ते॥१६.
यथा भर्तृसमं नान्यमपश्यं पुरुषं क्वचित् । रूपतः शीलतो बुद्ध्या वाङ्माधुर्ंय्यादिभूषणैः॥१६.
तेन सत्येन विप्रोऽयं व्याधिमुक्तः पुनर्युवा । प्राप्नोतु जीवितं भार्यासहायः शरदां शतम्॥१६.
यथा भर्तृसमं नान्यमहं पश्यामि दैवतम् । तेन सत्येन विप्रोऽयं पुनर्जोवत्वनामयः॥१६.
कर्मणा मनसा वाचा भर्तुराराधनं प्रति । यथा ममोद्यमो नित्यं तथायं जीवतां द्विजः॥१६.
पुत्र उवाच ततो विप्रः समुत्तस्थौ व्याधिमुक्तः पुनर्युवा । स्वभाभिर्भासयन् वेश्म वृन्दारक इवाजरः॥१६.
ततोऽपतत् पुष्पवृष्टिर्देववाद्यादिनिस्वनः । लेभिरे च मुदं देवा अनसूयामथाब्रुवन्॥१६.
देवा ऊचुः वरं वृणीष्व कल्याणि देवकार्यं महत् कृतम् । त्वया यस्मात् ततो देवा वरदास्ते तपस्विनि॥१६.
अनसूयोवाच यदि देवाः प्रसन्ना मे पितामहपुरोगमाः । वरदा वरयोग्या च यद्यहं भवतां मता॥१६.
तद्यान्तु मम पुत्रत्वं ब्रह्म-विष्णु-महेश्वराः । योगञ्च प्राप्नुयां भर्तृसहिता क्लेशमुक्तये॥१६.
एवमस्त्विति तां देवा ब्रह्म-विष्णु-शिवादयः । प्रोक्त्वा जग्मुर्यथान्यायमनुमान्य तपस्विनीम्॥१६.
त्रयोविंशोऽध्यायः पुत्रावूचतुः स राजपुत्रः संप्राप्य वेगादात्मपुरं ततः । पित्रोर्ववन्दिषुः पादौ दिदृक्षुश्च मदालसाम् ॥ २३.
ददर्श जनमुद्विग्नमप्रहृष्टमुखं पुरः । पुनश्च विस्मिताकारं प्रहृष्टवदनं ततः ॥ २३.
अन्यमुत्फुल्लनयनं दिष्ट्या दिष्ट्येतिवादिनम् । परिष्वजन्तमन्योन्यमतिकौतूहलान्वितम् ॥ २३.