अहोरात्रव्यवस्थाया विना मासर्तुसंक्षयः । तत्संक्षयान्न त्वयने ज्ञायेते दक्षिणोत्तरे॥१६.
विना चायनविज्ञानात् कालः संवत्सरः कुतः । संवत्सरं विना नान्यत् कालज्ञानं प्रवर्तते॥१६.
पतिव्रताया वचसा नोद्गच्छति दिवाकरः । सूर्योदयं विना नैव स्त्रानदानादिकाः क्रियाः॥१६.
नाग्नेर्विहरणञ्चैव क्रात्वभावश्च लक्ष्यते । नैवाप्ययनमस्माकं विना होमेन जायते॥१६.
वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोचितैः । वृष्ट्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये॥१६.
निष्पादितास्वोषधीषु मर्त्या यज्ञैर्यजन्ति नः । तेषां वयं प्रयच्छामः कामान् यज्ञादिपूजिताः॥१६.
अधो हि वर्षाम वयं मर्त्याश्चोर्ध्वप्रवर्षिणः । तोयवर्षेण हि वयं हविर्वर्षेण मानवाः॥१६.
ये नास्माकं प्रयच्छन्ति नित्यनैमित्तकीः क्रियाः । क्रतुभागं दुरात्मानः स्वयञ्चाश्नन्ति लोलुपाः॥१६.
विनाशाय वयं तेषां तोयसूर्याग्निमारुतान् । क्षितिञ्च सन्दूषयामः पापानामपकारिणाम्॥१६.
दुष्टतोयादिभोगेन तेषां दुष्कृतकर्मिणाम् । उपसर्गाः प्रवर्तन्ते मरणाय सुदारुणाः॥१६.
ये त्वस्मान् प्रीणयित्वा तु भुञ्जते शेषमात्मना । तेषां पुण्यान् वयं योकान् विदधाम महात्मनाम्॥१६.
तन्नास्ति सर्वमेवैतद्विनैषां व्युष्टिसंस्थैतम् । कथं नु दिनसर्गः स्यादन्योऽन्यमवदन् सुराः॥१६.
तेषामेव समेतानां यज्ञव्युच्छित्तिशङ्किनाम् । देवानां वचनं श्रुत्वा प्राह देवः प्रजापतिः॥१६.
तेजः परं तेजसैव तपसा च तपस्तथा । प्रशाम्यतेऽमरास्तस्माच्छृणुध्वं वचनं मम॥१६.
पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः । तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा॥१६.
तस्मात् पतिव्रतामत्रेरनुभूयां तपस्विनीम् । प्रसादयत वै पत्नीं भानोरुदयकाम्यया॥१६.
पुत्र उवाच तैः सा प्रसादिता गत्वा प्रोहेष्टं व्रियतामिति । अयाचन्त दिनं देवा भवत्विति यथा पुरा॥१६.
अनसूयोवाच पतिव्रताया माहात्म्यं न हीयेत कथन्त्विति । संमान्य तस्मात् तां साध्वीमहः स्त्रक्ष्याम्यहं सुराः॥१६.
यथा पुनरहोरात्र-संस्थानमुपजायते । यथा च तस्याः स्वपतिर्न साध्व्या नाशमेष्यति॥१६.
पुत्र उवाच एवमुक्त्वा सुरांस्तस्या गत्वा सा मन्दिरं शुभा । उवाच कुशलं पृष्टा धर्मं भर्तुस्तथात्मनः॥१६.
अनसूयोवाच कच्चिन्नन्दसि कल्याणि स्वभर्तुर्मुखदर्शनात् । कच्चिच्चाखिलदेवेभ्यो मन्यसेऽभ्यधिकं पतिम्॥१६.
भर्तृशुश्रूषणादेव मया प्राप्तं महत् फलम् । सर्वकामफलावाप्त्या प्रत्यूहाः परिवर्तिताः॥१६.
पञ्चर्णानि मनुष्येण साध्वि ! देयानि सर्वदा । तथात्मवर्णधर्मेण कर्तव्यो धनसंचयः॥१६.
प्राप्तश्चार्थस्ततः पात्रे विनियोज्यो विधानतः । सत्यार्जव-तपो-दानैर्दयायुक्तो भवेत् सदा॥१६.
क्रियाश्च शास्त्रनिर्दिष्टा रागद्वेषविवर्जिताः । कर्तव्या अन्वहं श्रद्धा-पुरस्कारेण शक्तितः॥१६.
स्वजातिविहितानेव लोकानाप्नोति मानवः । क्लेशेन महता साध्वि ! प्राजापत्यादिकान् क्रमात्॥१६.
स्त्रियस्त्वेवं समस्तस्य नरैर्दुः खार्जितस्य वै । पुण्यस्यार्धापहारिण्यः पतिशुश्रूषयैव हि॥१६.
नास्ति स्त्रीणां पृथग्यज्ञो न श्राद्धं नाप्युपोषितम् । भर्तृशुश्रूषयैवैतान् लोकानिष्टान् व्रजन्ति हि॥१६.
तस्मात् साध्वि ! महाभागे ! पतिशुश्रूषणं प्रति । त्वया मतिः सदा कार्या यतो भर्ता परा गतिः॥१६.
यद्देवेभ्यो यच्च पित्रागतेभ्यः कुर्याद्भर्ताभ्यर्च्चनं सत्क्रियातः । तस्याप्यर्धं केवलानन्यचित्ता नारी भुङ्क्ते भर्तृशुश्रूषयैव॥१६.