तमनुष्ठाय विधिवद् विहायाग्निपरिग्रहम् । आत्मन्यात्मानमाधया निर्द्वन्द्वो निष्परिग्रहः॥१६.
एकान्तराशी वश्यात्मा भव भिक्षुरतन्द्रितः । तत्र योगापरो भूत्वा बाह्यस्पर्शविवर्जितः॥१६.
ततः प्राप्स्यति तं योगं दुः शसंयोगभेषजम् । मुक्तिहेतुमनौपम्यमनाख्येयमसङ्गिनम् । यत्संयोगान्न ते योगो भूयो भूतैर्भविष्यति॥१६.
पितोवाच वत्स योगं ममाचक्ष्व मुक्तिहेतुमतः परम् । येन भूतैः पुनर्भूतो नेदृगः खमवाप्नुयाम्॥१६.
यत्रासक्तिपरस्यात्मा मम संसारबन्धनैः । नैति योगमयोगोऽपि तं योगमधुना वद॥१६.
संसारादित्यतापार्ति-विप्लुष्यद्देहमानसम् । ब्रह्मज्ञानाम्बुशीतेन सिञ्च मां वाक्यवारिणा॥१६.
अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम् । स्ववाक्यामृतपानेन मां जीवय पुनर्मृतम्॥१६.
पुत्र-दार-गृह-क्षेत्र-ममत्वनिगजडार्दितम् । मां मोचयेष्टसद्भाव-विज्ञानोद्घाटनैस्त्वरन्॥१६.
पुत्र उवाच शृणु तात ! यथा योगो दत्तात्रेयेण धीमता । अलर्काय पुरा प्रोक्तः सम्यक् पृष्टेन विस्तरात्॥१६.
पितोवाच दत्तात्रेयः सुतः कस्य कथं वा योगमुक्तवान् । कश्चालर्को महाभागो यो यौगं परिपृष्टवान्॥१६.
पुत्र उवाच कौशिको ब्राह्मणः कश्चित् प्रतिष्ठानेऽभवत् पुरे । सोऽन्यजन्मकृतैः पापैः कुष्ठरोगातुरोऽभवत्॥१६.
तं तथा व्याधितं भार्या पतिं देवमिवार्च्चयत् । पादाभ्यङ्गाङ्गसंवाह-स्त्रानाच्छादनभोजनैः॥१६.
श्लेष्म-मूत्र-पुरीषासृक्-प्रवाहक्षालनेन च । रहश्चैवोपचारेण प्रियसम्भाषणेन च॥१६.
स तया पूज्यमानोऽपि सदातीव विनीतया । अतीव तीव्रकोपत्वान्निर्भर्त्सयति निष्ठुरः॥१६.
तथापि प्रणता भार्या तममन्यत दैवतम् । तं तथाप्यतिबीभत्सं सर्वश्रेष्ठममन्यत॥१६.
अचङ्क्रमणशोलोऽपि स कदाचिद् द्विजोत्तमः । प्राह भार्यां नयस्वेति त्वं मां तस्या निवेशनम्॥१६.
या सा वेश्या मया दृष्टा राजमार्गे गृहोषिता । तां मां प्रापय धर्मज्ञे ! सैव मे हृदि वर्तते॥१६.
दृष्टा सूर्योदये बाला रात्रिश्चेयमुपागता । दर्शनानन्तरं सा मे हृदयान्नापसर्पति॥१६.
यदि सा चारुसर्वाङ्गी पीनश्रोणिपयोधरा । नोपगूहति तन्वङ्गी तन्मां द्रक्ष्यसि वै मृतम्॥१६.
वामः कामो मनुष्याणां बहुभिः प्रार्थ्यते च सा । ममाशक्तिश्च गमने सङ्कुलं प्रतिभाति मे॥१६.
तत् तदा वचनं श्रुत्वा भर्तुः कामातुरस्य सा । तत्पत्नी सत्कुलोत्पन्ना महाभागा पतिव्रता॥१६.
गाग्ं परिकरं बद्ध्वा शुल्कमादाय चाधिकम् । स्कन्धे भर्तारमादाय जगाम मृदुगामिनी॥१६.
निशि मेघास्तृते व्योम्नि चलद्विद्युत्प्रदर्शिते । राजमार्गे प्रियं भर्तुश्चिकीर्षन्ती द्विजाङ्गना॥१६.
पथि शूले तथा प्रोतमचौरं यौरशङ्कया । माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः॥१६.
पत्नीस्कन्धे समारूढश्चालयामास कौशिकः । पादावमर्षणात् क्रुद्धो माण्डव्यस्तमुवाच ह॥१६.
येनाहमेवमत्यर्थं दुः खितश्चालितः पदा । दशां कष्टामनुप्राप्तः स पापात्मा नराधमः॥१६.
सूर्योदयेऽवशः प्राणैर्विमोक्ष्यति न संशयः । भास्करालोकनादेव स विनाशमवाप्स्यति॥१६.
तस्य भार्याततः श्रुत्वा तं शापमतिदारुणम् । प्रोवाच व्यथिता सूर्यो नैवोदयमुपैष्यति॥१६.
ततः सूर्योदयाभावादभवत् सन्तता निशा । बहून्यहः प्रमाणानि ततो देवा भयं ययुः॥१६.
निः स्वाध्यायवषट्कार-स्वधास्वाहाविवर्जितम् । कथं नु खल्विदं सर्वं न गच्छेत् संक्षयं जगत्॥१६.