राजोवाच कथं स्पृहां करिष्यन्ति मत्सम्पर्केषु मानवाः । यदि सत्सन्निधावेषामुकत्कर्षो नोपजायते ॥ १५.
तस्माद्यत्सुकृतं किञ्चिन्ममास्ति त्रिदशाधिप । तेन मुच्यन्तु नरकात्पापिनो यातनां गताः ॥ १५.
इन्द्र उवाच एवमूर्ध्वतरं स्थानं त्वयावाप्तं महीपते । एतांश्च नरकात्पश्य विमुक्तान् पापकारिणः ॥ १५.
पुत्र उवाच ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः । विमानञ्चाधिरोप्यैनं स्वर्लोकमनयद्धरिः ॥ १५.
अहञ्चान्ये च ये तत्र यातनाभ्यः परिच्युताः । स्वकर्मफलनिर्दिष्टं ततो जात्यन्तरं गताः ॥ १५.
एवमेते समाख्याता नरका द्विजसत्तम । येन येन च पापेन यां यां योनिमुपैति वै ॥ १५.
तत्तत्सर्वं समाख्यातं यथा दृष्टं मया पुरा । पुरानुभवजं ज्ञानमवाप्यावितथं तव । अतः परं महाभाग किमन्यत्कथयामि ते ॥ १५.
16(16) पितोवाच कथितं मे त्वया वत्स संसारस्य व्यवस्थितम् । स्वरूपमतिहेयस्य घटीयन्त्रवदव्ययम्॥१६.
तदेवमेतदखिलं मयावगतमीदृशम् । किं मया वद कर्तव्यमेवस्मिन् व्यवस्थिते॥१६.
पुत्र उवाच यदि मद्वचनं तात श्रद्दधास्यविशङ्कितः । तत् परित्यज्य गार्हस्थ्यं वानप्रस्थपरो भव॥१६.
तमनुष्ठाय विधिवद् विहायाग्निपरिग्रहम् । आत्मन्यात्मानमाधया निर्द्वन्द्वो निष्परिग्रहः॥१६.
एकान्तराशी वश्यात्मा भव भिक्षुरतन्द्रितः । तत्र योगापरो भूत्वा बाह्यस्पर्शविवर्जितः॥१६.
ततः प्राप्स्यति तं योगं दुः शसंयोगभेषजम् । मुक्तिहेतुमनौपम्यमनाख्येयमसङ्गिनम् । यत्संयोगान्न ते योगो भूयो भूतैर्भविष्यति॥१६.
पितोवाच वत्स योगं ममाचक्ष्व मुक्तिहेतुमतः परम् । येन भूतैः पुनर्भूतो नेदृगः खमवाप्नुयाम्॥१६.
यत्रासक्तिपरस्यात्मा मम संसारबन्धनैः । नैति योगमयोगोऽपि तं योगमधुना वद॥१६.
संसारादित्यतापार्ति-विप्लुष्यद्देहमानसम् । ब्रह्मज्ञानाम्बुशीतेन सिञ्च मां वाक्यवारिणा॥१६.
अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम् । स्ववाक्यामृतपानेन मां जीवय पुनर्मृतम्॥१६.
पुत्र-दार-गृह-क्षेत्र-ममत्वनिगजडार्दितम् । मां मोचयेष्टसद्भाव-विज्ञानोद्घाटनैस्त्वरन्॥१६.
पुत्र उवाच शृणु तात ! यथा योगो दत्तात्रेयेण धीमता । अलर्काय पुरा प्रोक्तः सम्यक् पृष्टेन विस्तरात्॥१६.
पितोवाच दत्तात्रेयः सुतः कस्य कथं वा योगमुक्तवान् । कश्चालर्को महाभागो यो यौगं परिपृष्टवान्॥१६.
पुत्र उवाच कौशिको ब्राह्मणः कश्चित् प्रतिष्ठानेऽभवत् पुरे । सोऽन्यजन्मकृतैः पापैः कुष्ठरोगातुरोऽभवत्॥१६.
तं तथा व्याधितं भार्या पतिं देवमिवार्च्चयत् । पादाभ्यङ्गाङ्गसंवाह-स्त्रानाच्छादनभोजनैः॥१६.
श्लेष्म-मूत्र-पुरीषासृक्-प्रवाहक्षालनेन च । रहश्चैवोपचारेण प्रियसम्भाषणेन च॥१६.
स तया पूज्यमानोऽपि सदातीव विनीतया । अतीव तीव्रकोपत्वान्निर्भर्त्सयति निष्ठुरः॥१६.
तथापि प्रणता भार्या तममन्यत दैवतम् । तं तथाप्यतिबीभत्सं सर्वश्रेष्ठममन्यत॥१६.
अचङ्क्रमणशोलोऽपि स कदाचिद् द्विजोत्तमः । प्राह भार्यां नयस्वेति त्वं मां तस्या निवेशनम्॥१६.
या सा वेश्या मया दृष्टा राजमार्गे गृहोषिता । तां मां प्रापय धर्मज्ञे ! सैव मे हृदि वर्तते॥१६.
दृष्टा सूर्योदये बाला रात्रिश्चेयमुपागता । दर्शनानन्तरं सा मे हृदयान्नापसर्पति॥१६.
यदि सा चारुसर्वाङ्गी पीनश्रोणिपयोधरा । नोपगूहति तन्वङ्गी तन्मां द्रक्ष्यसि वै मृतम्॥१६.
वामः कामो मनुष्याणां बहुभिः प्रार्थ्यते च सा । ममाशक्तिश्च गमने सङ्कुलं प्रतिभाति मे॥१६.