स्वर्गच्युतानां लिङ्गानि पुरुषाणामपापिनाम् । एतदुद्देशतो राजन् भवतः कथितं मया ॥ १५.
स्वकर्मफलभोक्तॄणां पुण्यानां पापिनां तथा । तदेह्यन्यत्र गच्छामो दृष्टं सर्वं त्वयाधुना । त्वया दृष्टो हि नरकस्तदेह्यन्यत्र गम्यताम् ॥ १५.
पुत्र उवाच ततस्तमग्रतः कृत्वा स राजा गन्तुमुद्यतः । ततश्च सर्वैरुत्क्रुष्टं यातनास्थायिभिर्नृभिः ॥ १५.
प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्तकम् । त्वदङ्गसङ्गी पवनो मनो ह्लादयते हि नः ॥ १५.
परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः । अपहन्ति नरव्याघ्र यदां कुर महीपते ॥ १५.
एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः । पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति ॥ १५.
किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् । आह्लाददायिनी व्युष्टिर्येनेयं तदुदीरय ॥ १५.
यमपुरुष उवाच पितृदेवातिथिप्रैष्यशिष्टेनान्नेन ते तनुः । पुष्टिमभ्यागता यस्मात्तद्गतं च मनो यतः ॥ १५.
ततस्त्वद्गात्रसंसर्गो पवनो ह्लाददायकः । पापकर्मकृतो राजन् यातना न प्रबाधते ॥ १५.
अश्वमेधादयो यज्ञास्त्वयेष्टा विधिवद्यतः । ततस्त्वद्दर्शनाद्याम्या यन्त्रशस्त्राग्निवायसाः ॥ १५.
पीडनच्छेददाहादिमहादुः खस्य हेतवः । मृदुत्वमागता राजन् तेजसापहतास्तव ॥ १५.
राजोवाच न स्वर्गे ब्रह्मलोके वा तत्सुखं प्राप्यते नरैः । यदार्तजन्तुनिर्वाणदानोत्थमिति मे मतिः ॥ १५.
यदि मत्सन्निधावेतान् यातना न प्रबाधते । ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः ॥ १५.
यमपुरुष उवाच एहि राजन् प्रगच्छामो निजपुण्यसमर्जितान् । भुङ्क्ष्व भोगानपास्येह यातनाः पापकर्मणाम् ॥ १५.
राजोवाच तस्मान्न तावद्यास्यामि यावदेते सुदुः खिताः । मत्सन्निधानात्सुखिनो भवन्ति नरकौकसः ॥ १५.
धिक्तस्य जीवनं पुंसः शरणार्थिनमातुरम् । यो नार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम् ॥ १५.
यज्ञदानतपांसीह परत्र च न भूतये । भवन्ति तस्य यस्यार्तपरित्राणे न मानसम् ॥ १५.
नरस्य यस्य कठिनं मनो बालातुरादिषु । वृद्धेषु च न तं मन्ये मानुषं राक्षसो हि सः ॥ १५.
एतेषां सन्निकर्षात्तु यद्यग्निपरितापजम् । तथोग्रगन्धजं वापि दुः खं नरकसम्भवम् ॥ १५.
क्षुत्पिपासाभवं दुः खं यच्च मूर्च्छाप्रदं महत् । एतेषां त्राणदानन्तु मन्ये स्वर्गसुखात्परम् ॥ १५.
प्राप्स्यन्त्यार्ता यदि सुखं बहवो दुः खिते मयि । किन्नु प्राप्तं मया न स्यात्तस्मात्त्वं व्रज माचिरम् ॥ १५.
यमपुरुष उवाच एष धर्मश्च शक्रश्च त्वां नेतुं समुपागतौ । अवश्यमस्माद्गन्तव्यं तस्मात्पार्थिव ! गम्यताम् ॥ १५.
धर्म उवाच नयामि त्वामहं स्वर्गं त्वया सम्यगुपासितः । विमानमेतदारुह्य मा विलम्बस्व गम्यताम् ॥ १५.
राजोवाच नरके मानवा धर्म पीड्यन्तेऽत्र सहस्रशः । त्राहीति चार्ताः क्रन्दन्ति मामतो न व्रजाम्यहम् ॥ १५.
इन्द्र उवाच कर्मणा नरकप्राप्तिरेतेषां पापकर्मिणाम् । स्वर्गस्त्वयापि गन्तव्यो नृप ! पुण्येन कर्मणा ॥ १५.
राजोवाच यदि जानासि धर्म ! त्वं त्वं वा शक्र ! शचीपते । मम यावत्प्रमाणन्तु शुभं तद्वक्तुमर्हथः ॥ १५.
धर्म उवाच अब्बिन्दवो यथाम्भोधौ यथा वा दिवि तारकाः । यथा वा वर्षता धारा गड्गायां सिकता यथा ॥ १५.
असंख्येया महाराज यथा बिन्द्वादयो ह्यपाम् । तथा तवापि पुण्यस्य संख्या नैवोपपद्यते ॥ १५.
अनुकम्पामिमामद्य नारकेष्विह कुर्वतः । तदेव शतसाहस्त्रं संख्यामुपगतं तव ॥ १५.
तद्गच्छ त्वं नृपश्रेष्ठ तद्भाक्तुममरालयम् । एतेऽपि पापं नरके क्षपयन्तु स्वकर्मजम् ॥ १५.