पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः । मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते ॥ १५.
अपस्मारी च भवति शूद्रत्वं च स गच्छति । एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम् ॥ १५.
विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः । जायामन्यस्य पुरुषः पारख्यां प्रतिपादयन् ॥ १५.
प्राप्नोति षण्ढतां मूढो यातनाभ्यः परिच्युतः । यः करोति नरो होममसमिद्धे विभावसौ ॥ १५.
सोऽजिर्णव्याधिदुः खार्तो मन्दाग्निः संप्रजायते । परनिन्दा कृतघ्रत्वं परमर्मावघट्टनम् ॥ १५.
नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् । परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥ १५.
निकृत्या कञ्चनं नृणां कार्पण्यं च नृणां वधः । यानि च प्रतिषिद्धानि तत्प्रवृत्तिश्च सन्तता ॥ १५.
उपलक्ष्याणि जानीयान्मुक्तानां नरकादनु । दया भूतेषु संवादः परलोकप्रतिक्रिया ॥ १५.
सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनम् । गुरुदेवर्षिसिद्धर्षिपूजनं साधुसङ्गमः ॥ १५.
सत्क्रियाभायसनं मैत्रीमिति बुध्यते पण्डितः । अन्यानि चैव सद्धर्मङ्क्रियाभूतानि यानि च ॥ १५.
स्वर्गच्युतानां लिङ्गानि पुरुषाणामपापिनाम् । एतदुद्देशतो राजन् भवतः कथितं मया ॥ १५.
स्वकर्मफलभोक्तॄणां पुण्यानां पापिनां तथा । तदेह्यन्यत्र गच्छामो दृष्टं सर्वं त्वयाधुना । त्वया दृष्टो हि नरकस्तदेह्यन्यत्र गम्यताम् ॥ १५.
पुत्र उवाच ततस्तमग्रतः कृत्वा स राजा गन्तुमुद्यतः । ततश्च सर्वैरुत्क्रुष्टं यातनास्थायिभिर्नृभिः ॥ १५.
प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्तकम् । त्वदङ्गसङ्गी पवनो मनो ह्लादयते हि नः ॥ १५.
परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः । अपहन्ति नरव्याघ्र यदां कुर महीपते ॥ १५.
एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः । पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति ॥ १५.
किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् । आह्लाददायिनी व्युष्टिर्येनेयं तदुदीरय ॥ १५.
यमपुरुष उवाच पितृदेवातिथिप्रैष्यशिष्टेनान्नेन ते तनुः । पुष्टिमभ्यागता यस्मात्तद्गतं च मनो यतः ॥ १५.
ततस्त्वद्गात्रसंसर्गो पवनो ह्लाददायकः । पापकर्मकृतो राजन् यातना न प्रबाधते ॥ १५.
अश्वमेधादयो यज्ञास्त्वयेष्टा विधिवद्यतः । ततस्त्वद्दर्शनाद्याम्या यन्त्रशस्त्राग्निवायसाः ॥ १५.
पीडनच्छेददाहादिमहादुः खस्य हेतवः । मृदुत्वमागता राजन् तेजसापहतास्तव ॥ १५.
राजोवाच न स्वर्गे ब्रह्मलोके वा तत्सुखं प्राप्यते नरैः । यदार्तजन्तुनिर्वाणदानोत्थमिति मे मतिः ॥ १५.
यदि मत्सन्निधावेतान् यातना न प्रबाधते । ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः ॥ १५.
यमपुरुष उवाच एहि राजन् प्रगच्छामो निजपुण्यसमर्जितान् । भुङ्क्ष्व भोगानपास्येह यातनाः पापकर्मणाम् ॥ १५.
राजोवाच तस्मान्न तावद्यास्यामि यावदेते सुदुः खिताः । मत्सन्निधानात्सुखिनो भवन्ति नरकौकसः ॥ १५.
धिक्तस्य जीवनं पुंसः शरणार्थिनमातुरम् । यो नार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम् ॥ १५.
यज्ञदानतपांसीह परत्र च न भूतये । भवन्ति तस्य यस्यार्तपरित्राणे न मानसम् ॥ १५.
नरस्य यस्य कठिनं मनो बालातुरादिषु । वृद्धेषु च न तं मन्ये मानुषं राक्षसो हि सः ॥ १५.
एतेषां सन्निकर्षात्तु यद्यग्निपरितापजम् । तथोग्रगन्धजं वापि दुः खं नरकसम्भवम् ॥ १५.
क्षुत्पिपासाभवं दुः खं यच्च मूर्च्छाप्रदं महत् । एतेषां त्राणदानन्तु मन्ये स्वर्गसुखात्परम् ॥ १५.