आसवं चोरयित्वा तु तित्तिरित्वमवाप्नुयात् । अयो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥ १५.
हृते कांस्ये च हारीतः कपोतो रुप्यभाजने । हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ १५.
पत्रोर्णं चोरयित्वा तु क्रकरत्वञ्च गच्छति । कोषकारश्च कौषेये हृते वस्त्रेऽभिजायते ॥ १५.
दुकूले शार्ङ्गकः पापो हृते चैवांशुके शुकः । तथैवाजाविकं हृत्वा वस्त्रं क्षौमं च जायते ॥ १५.
कार्पासिके हृते क्रौञ्चो वाल्कहर्ता बकस्तथा । मयूरो वर्णकान् हृत्वा शाकपत्रं च जायते ॥ १५.
जीवज्जीवकतां याति रक्तवस्त्रापहृन्नरः । छुच्छुन्दरिः शुभान् गन्धान् वासो हृत्वा शशो भवेत् ॥ १५.
षण्ढः फलापहरणात्काष्ठस्य घुणकीटकः । पुष्पापहृद्दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥ १५.
शाकहर्ता च हारीतस्तोयहर्ता च चातकः । भूहर्ता नरकान् गत्वा रौरवादीन् सुदारुणान् ॥ १५.
तृणगुल्मलतावल्लित्वक्सारतरुतां क्रमात् । प्राप्य क्षीणाल्पपापस्तु नरो भवति वै ततः ॥ १५.
कृमिः कीटः पतङ्गोऽथ पक्षी तोय चरो मृगः । गोत्वं प्राप्य च चण्डालपुक्कसादि जुगुप्सितम् ॥ १५.
पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः । मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते ॥ १५.
अपस्मारी च भवति शूद्रत्वं च स गच्छति । एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम् ॥ १५.
विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः । जायामन्यस्य पुरुषः पारख्यां प्रतिपादयन् ॥ १५.
प्राप्नोति षण्ढतां मूढो यातनाभ्यः परिच्युतः । यः करोति नरो होममसमिद्धे विभावसौ ॥ १५.
सोऽजिर्णव्याधिदुः खार्तो मन्दाग्निः संप्रजायते । परनिन्दा कृतघ्रत्वं परमर्मावघट्टनम् ॥ १५.
नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् । परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥ १५.
निकृत्या कञ्चनं नृणां कार्पण्यं च नृणां वधः । यानि च प्रतिषिद्धानि तत्प्रवृत्तिश्च सन्तता ॥ १५.
उपलक्ष्याणि जानीयान्मुक्तानां नरकादनु । दया भूतेषु संवादः परलोकप्रतिक्रिया ॥ १५.
सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनम् । गुरुदेवर्षिसिद्धर्षिपूजनं साधुसङ्गमः ॥ १५.
सत्क्रियाभायसनं मैत्रीमिति बुध्यते पण्डितः । अन्यानि चैव सद्धर्मङ्क्रियाभूतानि यानि च ॥ १५.
स्वर्गच्युतानां लिङ्गानि पुरुषाणामपापिनाम् । एतदुद्देशतो राजन् भवतः कथितं मया ॥ १५.
स्वकर्मफलभोक्तॄणां पुण्यानां पापिनां तथा । तदेह्यन्यत्र गच्छामो दृष्टं सर्वं त्वयाधुना । त्वया दृष्टो हि नरकस्तदेह्यन्यत्र गम्यताम् ॥ १५.
पुत्र उवाच ततस्तमग्रतः कृत्वा स राजा गन्तुमुद्यतः । ततश्च सर्वैरुत्क्रुष्टं यातनास्थायिभिर्नृभिः ॥ १५.
प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्तकम् । त्वदङ्गसङ्गी पवनो मनो ह्लादयते हि नः ॥ १५.
परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः । अपहन्ति नरव्याघ्र यदां कुर महीपते ॥ १५.
एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः । पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति ॥ १५.
किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् । आह्लाददायिनी व्युष्टिर्येनेयं तदुदीरय ॥ १५.
यमपुरुष उवाच पितृदेवातिथिप्रैष्यशिष्टेनान्नेन ते तनुः । पुष्टिमभ्यागता यस्मात्तद्गतं च मनो यतः ॥ १५.
ततस्त्वद्गात्रसंसर्गो पवनो ह्लाददायकः । पापकर्मकृतो राजन् यातना न प्रबाधते ॥ १५.
अश्वमेधादयो यज्ञास्त्वयेष्टा विधिवद्यतः । ततस्त्वद्दर्शनाद्याम्या यन्त्रशस्त्राग्निवायसाः ॥ १५.