न चापि कौशिकश्रेष्ठस्तस्य राज्ञोऽपरध्यते । स्वर्गप्राप्तिकरो ब्रह्मन्नपकारपदे स्थितः॥९.
तपो विघ्नस्य कर्तारौ कामक्रोधवशं गतौ । परित्यजत भद्रं वो ब्रह्म हि प्रचुरं बलम्॥९.
एवमुक्तौ ततस्तेन लज्जितौ तावुभावपि । क्षमयामासतुः प्रीत्या परिष्वज्य परस्परम्॥९.
ततः सुरैर्वन्द्यमानो ब्रह्मा लोकं निजं ययौ । वशिष्ठोऽप्यात्मनः स्थानं कौशिकोऽपि स्वामाश्रयम्॥९.
एतदाडिबकं युद्धं हरिश्चन्द्रकथां तथा । कथयिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति चैव ये॥९.
तेषां पापापनोदन्तु श्रुतं ह्येव करिष्यति । न चैव विघ्नकार्याणि भविष्यन्ति कदाचन॥९.
पञ्चदशोऽध्यायः यमकिङ्कर उवाच पतितात्प्रतिगृह्यार्थं खरयोनिं व्रजेद्द्विजः । नरकात्प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥ १५.
उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः । तज्जायां मनसावाञ्छन् तद्द्रव्यञ्चाप्यसंशयम् ॥ १५.
गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः । मातापितरावाक्रुश्य शारिका सम्प्रजायते ॥ १५.
भ्रातुः पत्न्यवमन्ता च कपोतत्वं प्रपद्यते । तामेव पीडयित्वा तु कच्छपत्वं प्रपद्यते ॥ १५.
भर्तृपिण्डमुपाश्नन् यस्तदिष्टं न निषेवते । सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥ १५.
न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः । असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥ १५.
विश्वासहन्ता च नरो मीनयोनौ प्रजायते । धान्यं यवांस्तिलान्माषान् कुलत्थान् सर्षपांश्चणान् ॥ १५.
कलायान कलमान्मुद्गान् गोधूमानतसीस्तथा । शस्यान्यन्यानि वा हृत्वा मोहाज्जन्तुरचेतनः ॥ १५.
सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः । परदाराभिमर्षात्तु वृको घोरोऽभिजायते ॥ १५.
श्वा शृगालो वको गृध्रो व्याडः कङ्कस्तथा क्रमात् । भ्रातृभार्याञ्च दुर्बुद्धिर्यो धर्षयति पापकृत् ॥ १५.
पुंस्कोकिलत्वमाप्नोति स चापि नरकाच्च्युतः । सखिभार्यां गुरोर्भार्यां राजभार्याञ्च पापकृत् ॥ १५.
प्रधर्षयित्वा कामात्मा शूकरो जायते नरः । यज्ञदानविवाहानां विघ्रकर्ता भवेत्कृमिः ॥ १५.
पुनर्दात्च कन्यायाः कृमिरेवोपजायते । देवतापितृविप्राणामदत्वा योऽन्नमश्नुते ॥ १५.
प्रमुक्तो नरकात्सोऽपि वायसः सम्प्रजायते । ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते ॥ १५.
नरकात्सोऽपि विभ्रष्टः क्रौञ्चयोनौ प्रजायते । शूद्रश्च ब्राह्मणरिं गत्वा कृमियोनौ प्रजायते ॥ १५.
तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत् । शूकरः कृमिको मद्गुश्चण्डालश्च प्रजायते ॥ १५.
अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः । कृतघ्रः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥ १५.
मत्स्यस्तु वायसः कूर्मः पुक्कसो जायते ततः । अशस्त्रं पुरुषं हत्वा नरः सञ्जायते खरः ॥ १५.
कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते । भोजनं चोरयित्वा तु मक्षिका जायते नरः ॥ १५.
तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तत् । ह्त्वान्नन्तु स मार्जारो जायते नरकाच्च्युतः ॥ १५.
तिलपिण्याकसंमिश्रमन्नं हृत्वा तु मूषिकः । घृतं हृत्वा च नकुलः काको मद्गुरजामिषम् ॥ १५.
मत्स्यमांसापहृत्काकः श्येनो मार्गामिषापहृत् । वीचीकाकस्त्वपहृते लवणे दधनि कृमिः ॥ १५.
चोरयित्वा पयश्चापि बलाका सम्प्रजायते । यस्तु चोरयते तैलं तैलपायी स जायते ॥ १५.
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः । चोरयित्वा तु निष्पावान् जायते गृहगोलकः ॥ १५.