सपत्नीभृत्यपुत्रस्तु प्रापितोऽन्त्यां दशां नृपः । स राज्याच्च्यावितोऽनेन बहुशश्च खिलीकृतः॥९.
तस्माद् दुरात्मा ब्रह्मद्विट् प्राज्ञानामवरोपितः । मच्छापोपहतो मूढः स बकत्वमवाप्स्यति॥९.
पक्षिण ऊचुः श्रुत्वा शापं महातेजा विश्वामित्रोऽपि कौशिकः । त्वमप्याडिर्भवस्तेवति प्रतिशापमयच्छत॥९.
अन्योऽन्यशापात् तौ प्राप्तौ तिर्यक्त्वं परमद्युती । वशिष्ठः स महातेजा विश्वामित्रश्च कौशिकः॥९.
अन्यजातिसमायोगं गतावप्यमितौजसौ । युयुधातेऽतिसंरब्धौ महाबलपराक्रमौ॥९.
योजनानां सहस्रे द्वे प्रमाणेनाडिरुच्छ्रितः । यन्नवत्यधिकं ब्रह्मन् ! सहस्रत्रितयं बकः॥९.
तौ तु पक्षप्रहाराभ्यामन्योन्यस्योरुविक्रमौ । प्रहरन्तौ भयं तीव्रं प्रजानाञ्चक्रतुस्तदा॥९.
विधूय पक्षाणि बको रक्तोद्वृत्ताक्षिराहनत् । आडिं सोऽप्युन्नतग्रीवो बकं पद्भ्यामताडयत्॥९.
तयोः पक्षानिलापास्ताः प्रपेतुर्गिरयो भुवि । गिरिप्रपाताभिहता चकम्पे च वसुन्धरा॥९.
क्ष्मा कम्पमाना जलधीनुद्वृत्ताम्बूंश्चकार च । ननाम चैकपार्श्वेन पातालगमनोन्मुखी॥९.
केचिदिगरिनिपातेन केचिदम्भोधिवारिणा । केचिन्महीसञ्चलनात् प्रययुः प्राणिनः क्षयम्॥९.
इति सर्वं परित्रस्तं हाहाभूतमचेतनम् । जगदासीत् सुसम्भ्रान्तं पर्यस्तक्षितिमण्डलम्॥९.
हा वत्स ! हा कान्त ! शिशो ! प्रयाह्येषोऽस्मि संस्थितः । हा प्रिये ! कान्त ! शैलोऽयं पतत्याशु पलायताम्॥९.
इत्याकुलीकृते लोके संत्रासविमुखे तदा । सुरैः परिवृतः सर्वैराजगाम पितामहः॥९.
प्रत्युवाच च विश्वेशास्तावुभावतिकोपितौ । युद्धं वा विरमत्वेतल्लोकाः स्वास्थ्यं व्रजन्तु च॥९.
शृण्वन्तावपि तौ वाक्यं ब्रह्मणोऽव्यक्तजन्मनः । कोपामर्षसमाविष्टो युयुधाते न तस्थतुः॥९.
ततः पितामहो देवस्तं दृष्ट्वा लोकसंक्षयम् । तयोश्च हितमन्विच्छन् तिर्यग्भावमपानुदत्॥९.
ततस्तौ पूर्वदेहस्थौ प्राह देवः प्रजापतिः । व्युदस्ते तामसे भावे वशिष्ठ०-कौशिकर्षभौ॥९.
जहि वत्स वशिष्ठ त्वं त्वञ्च कौशिक सत्तम । तामसं भावमाश्रित्य ईदृग्युद्धं चिकीर्षितम्॥९.
राजसूयविपाकोऽयं हरिश्चन्द्रस्य भूपतेः । युवयोर्विग्रहश्चायं पृथिवीक्षयकारकः॥९.
न चापि कौशिकश्रेष्ठस्तस्य राज्ञोऽपरध्यते । स्वर्गप्राप्तिकरो ब्रह्मन्नपकारपदे स्थितः॥९.
तपो विघ्नस्य कर्तारौ कामक्रोधवशं गतौ । परित्यजत भद्रं वो ब्रह्म हि प्रचुरं बलम्॥९.
एवमुक्तौ ततस्तेन लज्जितौ तावुभावपि । क्षमयामासतुः प्रीत्या परिष्वज्य परस्परम्॥९.
ततः सुरैर्वन्द्यमानो ब्रह्मा लोकं निजं ययौ । वशिष्ठोऽप्यात्मनः स्थानं कौशिकोऽपि स्वामाश्रयम्॥९.
एतदाडिबकं युद्धं हरिश्चन्द्रकथां तथा । कथयिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति चैव ये॥९.
तेषां पापापनोदन्तु श्रुतं ह्येव करिष्यति । न चैव विघ्नकार्याणि भविष्यन्ति कदाचन॥९.
पञ्चदशोऽध्यायः यमकिङ्कर उवाच पतितात्प्रतिगृह्यार्थं खरयोनिं व्रजेद्द्विजः । नरकात्प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥ १५.
उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः । तज्जायां मनसावाञ्छन् तद्द्रव्यञ्चाप्यसंशयम् ॥ १५.
गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः । मातापितरावाक्रुश्य शारिका सम्प्रजायते ॥ १५.
भ्रातुः पत्न्यवमन्ता च कपोतत्वं प्रपद्यते । तामेव पीडयित्वा तु कच्छपत्वं प्रपद्यते ॥ १५.