मार्कण्डेय उवाच तस्य तद्वचनं श्रुत्वा सर्वा वेपतकन्धराः । अशक्यमेतदस्माकमिति ताश्चक्रिरे कथाः॥१.
तत्राप्सरा वपुर्नाम मुनिक्षोभणगर्विता । प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः॥१.
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् । स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्॥१.
ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः । तमप्यद्य करिष्यामि कामबाणक्षतान्तरम्॥१.
इत्युक्त्वा प्रजगामाथ प्रालेयाद्रिं वपुस्तदा । मुनेस्तपः प्रभावेण प्रशान्तश्वापदाश्रमम्॥१.
स पुंस्कोकिलमाधुर्या यत्रास्ते स महामुनिः । क्रोशमात्रं स्थिता तस्मादगायत वराप्सराः॥१.
तद्गीतध्वनिमाकर्ण्य मुनिर्विस्मितमानसः । जगाम तत्र यत्रास्ते सा बाला रुचिरानना॥१.
तां दृष्ट्वा चारुसर्वाङ्गीं मुनिः संस्तभ्य मानसम् । क्षोभणायागतां ज्ञात्वा कोपामर्षसन्वितः॥१.
उवाचेदं ततो वाक्यं महर्षिस्तां महातपाः॥१.
यस्माद्दुः खार्जितस्येह तपसो विध्नकारणात् । आगतासि मदोन्मत्ते मम दुः खाय खेचरि॥१.
तस्मात् सुपर्णगोत्रे त्वं मत्क्रोधकलुषीकृता । जन्म प्राप्स्यसि दुष्प्रज्ञे यावद्वर्षाणि षोडश॥१.
निजरूपं परित्यज्य पक्षिणीरूपधारिणी । चत्वारस्ते च तनया जनिष्यन्तेऽधमाप्सराः॥१.
अप्राप्य तेषु च प्रीतिं शस्त्रपूता पुनर्दिवि । वासमाप्स्यसि वक्तव्यं नोत्तरं ते कथञ्चन॥१.
इति वचनमसह्यं कोपसंरक्तदृष्टिश् चलकलबलयां तां मानिनीं श्रावयित्वा । तरलतरतरङ्गां गां परित्यज्य विप्रः प्रथितगुणगणौघां संप्रयाताः खगङ्गाम्॥१.
; धर्मपक्षिण ऊचुः हरिश्चन्द्रेति राजर्षिरासीत् त्रेतायुगे पुरा । धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः॥७.
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् । नाधर्मरुचयः पौरास्तस्मिन् शासति पार्थिवे॥७.
बभूवुर्न तथोन्मत्ता धन-वीर्य-तपोमदैः । नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः॥७.
स कदाचिन्महाबाहुररण्येऽनुसरन् मृगम् । शुश्राव शब्दमसकृत् त्रायस्वेति च योषिताम्॥७.
स विहाय मृगं राजा मा भैषीरित्यभाषत । मयि शासति दुर्मेधाः कोऽयमन्यायवृत्तिमान्॥७.
तत्क्रन्दितानुसारी च सर्वारम्भविघातकृत् । एकस्मिन्नन्तरे रौद्रो विघ्नराट् समचिन्तयत्॥७.
विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् । प्रागसिद्धाभवादीनां विद्याः साध्यति व्रती॥७.
साध्यमानाः क्षमामौनचित्तसंयमिनामुना । ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया॥७.
तेजस्वी कौशिकश्वेष्ठो वयमस्य सुदुर्बलाः । क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिभाति मे॥७.
अथवायं नृपः प्राप्तो मा भैरिति वदन् मुहुः । इममेव प्रविश्याशु साधयिष्ये यथेप्सितम्॥७.
इति संचिन्त्य रौद्रेण विघ्नराजेन वै ततः । तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत्॥७.
कोऽयं बघ्नाति वस्त्रान्ते पावकं पापकृन्नरः । बलोष्णतेजसा दीप्ते मयि पत्यावुपस्थिते॥७.
सोऽद्य मत्कार्मुकाक्षेप-विदीपितदिगन्तरैः । शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति॥७.
विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः । क्रुद्धे चर्षिवरे तस्मिन् नेशुर्विद्याः क्षणेन ताः॥७.
स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् । भीतः प्रावेपतात्यर्थं सहसाश्वत्थपर्णवत्॥७.
स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् । ततः स राजा विनयात् प्रणिपत्याभ्यभाषत॥७.