; पक्षिण ऊचुः एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः । प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः॥८.
विमानकोटिसम्बद्धं स्वर्गलोकान्महीतलम् । गत्वायोध्याजनं प्राह दिवमारुह्यतामिति॥८.
तदिन्द्रस्य वचः श्रुत्वा प्रीत्या तस्य च भूपतेः । आनीय रोहिताश्चञ्च विश्वामित्रो महातपाः॥८.
अयोध्याख्ये पुरे रम्ये सोऽभ्यसिञ्चन्नृपात्मजम् । देवैश्च मुनिभिः सिद्धैरभिषिच्य नराधिपम्॥८.
राज्ञा सह तदा सर्वे हृष्टपुष्टसुहृज्जनाः । सपुत्रभृत्यदारास्ते दिवमारुरुहुर्जनाः॥८.
पदे पदे विमानात् ते विमानमगमन् नराः । तदा सम्भूतहर्षोऽसौ हरिश्चन्द्रश्च पार्थिवः॥८.
सम्प्राप्य भूतिमतुलां विमानैः स महीपतिः । आसाञ्चक्रे पुराकारे वप्रप्राकारसंवृते॥८.
ततस्तस्यर्धिमालोक्य श्लोकं तत्रोशना जगौ । दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित्॥८.
; शुक्र उवाच हरिश्चन्द्रसमो राजा न भूतो न भविष्यति । यः शृणोति स्वदुः खार्तः स सुखं महदाप्नुयात्॥८.
स्वर्गार्थोप्राप्नुयात् स्वर्गं पुत्रार्थो पुत्रमाप्नुयात् । भार्यार्थो प्राप्नुयाद्भार्यां राज्यार्थो राज्यमाप्नुयात्॥८.
अहो तितिक्षामाहात्म्यमहो दानफलं महत् । यदागतो हरिश्चन्द्रः पुरीञ्चेन्द्रत्वमाप्तवान्॥८.
; पक्षिण ऊचुः एतत् ते सर्वमाख्यातं हरिश्चन्द्रविचेष्टितम् । अतः परं कथाशेषः श्रूयतां मुनिसत्तम॥८.
विपाको राजसूयस्य पृथिवीक्षयकारणम् । तद्विपाकनिमित्तञ्च युद्धमाडिबकं महत्॥८.
पक्षिण ऊचुः राज्यच्युते हरिश्चन्द्रे गते च त्रिदशालयम् । निश्चक्राम महातेजा जलवासात् पुरोहितः॥९.
वशिष्ठो द्वादशाब्दान्ते गङ्गापर्युषितो मुनिः । शुश्राव च समस्तन्तु विश्वामित्रविचेष्टितम्॥९.
हरिश्चन्द्रस्य नाशञ्च राज्ञश्चोदारकर्मणः । चण्डालसम्प्रयोगञ्च भार्यातनयविक्रयम्॥९.
स श्रुत्वा सुमाहभागः प्रीतिमानवनीपतौ । चकार कोपं तेजस्वी विश्वामित्रमृषिं प्रति॥९.
वशिष्ठ उवाच मम पुत्रशतं तेन विश्वामित्रेण घातितम् । तत्रापि नाभवत् क्रोधस्तादृशो यादृशोऽद्य मे॥९.
श्रुत्वा नराधिपमिमं स्वराज्यादवरोपितम् । महात्मानं महाभागं देवब्राह्मणपूजकम्॥९.
यस्मात् स सत्यवाक् शान्तः शत्रावपि विमत्सरः । अनागाश्चैव धर्मात्मा अप्रमत्तो मदाश्रयः॥९.
सपत्नीभृत्यपुत्रस्तु प्रापितोऽन्त्यां दशां नृपः । स राज्याच्च्यावितोऽनेन बहुशश्च खिलीकृतः॥९.
तस्माद् दुरात्मा ब्रह्मद्विट् प्राज्ञानामवरोपितः । मच्छापोपहतो मूढः स बकत्वमवाप्स्यति॥९.
पक्षिण ऊचुः श्रुत्वा शापं महातेजा विश्वामित्रोऽपि कौशिकः । त्वमप्याडिर्भवस्तेवति प्रतिशापमयच्छत॥९.
अन्योऽन्यशापात् तौ प्राप्तौ तिर्यक्त्वं परमद्युती । वशिष्ठः स महातेजा विश्वामित्रश्च कौशिकः॥९.
अन्यजातिसमायोगं गतावप्यमितौजसौ । युयुधातेऽतिसंरब्धौ महाबलपराक्रमौ॥९.
योजनानां सहस्रे द्वे प्रमाणेनाडिरुच्छ्रितः । यन्नवत्यधिकं ब्रह्मन् ! सहस्रत्रितयं बकः॥९.
तौ तु पक्षप्रहाराभ्यामन्योन्यस्योरुविक्रमौ । प्रहरन्तौ भयं तीव्रं प्रजानाञ्चक्रतुस्तदा॥९.
विधूय पक्षाणि बको रक्तोद्वृत्ताक्षिराहनत् । आडिं सोऽप्युन्नतग्रीवो बकं पद्भ्यामताडयत्॥९.
तयोः पक्षानिलापास्ताः प्रपेतुर्गिरयो भुवि । गिरिप्रपाताभिहता चकम्पे च वसुन्धरा॥९.
क्ष्मा कम्पमाना जलधीनुद्वृत्ताम्बूंश्चकार च । ननाम चैकपार्श्वेन पातालगमनोन्मुखी॥९.