; हरिश्चन्द्र उवाच देवाराज ! नमस्तुभ्यं वाक्यञ्चैतन्निबोध मे । प्रसादसुमुखं यत् त्वां ब्रवीमि प्रश्रयान्वितः॥८.
मच्छोकमग्नमनसः कोशलानगरे जनाः । तिष्ठन्ति तानपोह्याद्य कथं यास्याम्यहं दिवम्॥८.
ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा । तुल्यमेभिर्महापापं भक्तत्यागेऽप्युदाहृतम्॥८.
भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः सुखम् । नेह नामुत्र पश्यामि तस्माच्छक्र ! दिवं व्रज॥८.
यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर । ततोऽहमपि यास्यामि नरकं वापि तैः सह॥८.
; इन्द्र उवाच बहूनि पुण्यपापानि तेषां भिन्नानि वै पृथक् । कथं सङ्घातभोग्यं त्वं भूयः स्वर्गमवाप्स्यसि॥८.
; हरिश्चन्द्र उवाच शक्र भुङ्क्ते नृपो राज्यं प्रभावेण कुटुम्बिनाम् । यजते च महायज्ञैः कर्म पौर्तं करोति च॥८.
तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् । उपकर्तॄन् न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया॥८.
तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् । दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः॥८.
बहुकालोपभोग्यं हि फलं यन्मम कर्मणः । तदस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः॥८.
; पक्षिण ऊचुः एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः । प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः॥८.
विमानकोटिसम्बद्धं स्वर्गलोकान्महीतलम् । गत्वायोध्याजनं प्राह दिवमारुह्यतामिति॥८.
तदिन्द्रस्य वचः श्रुत्वा प्रीत्या तस्य च भूपतेः । आनीय रोहिताश्चञ्च विश्वामित्रो महातपाः॥८.
अयोध्याख्ये पुरे रम्ये सोऽभ्यसिञ्चन्नृपात्मजम् । देवैश्च मुनिभिः सिद्धैरभिषिच्य नराधिपम्॥८.
राज्ञा सह तदा सर्वे हृष्टपुष्टसुहृज्जनाः । सपुत्रभृत्यदारास्ते दिवमारुरुहुर्जनाः॥८.
पदे पदे विमानात् ते विमानमगमन् नराः । तदा सम्भूतहर्षोऽसौ हरिश्चन्द्रश्च पार्थिवः॥८.
सम्प्राप्य भूतिमतुलां विमानैः स महीपतिः । आसाञ्चक्रे पुराकारे वप्रप्राकारसंवृते॥८.
ततस्तस्यर्धिमालोक्य श्लोकं तत्रोशना जगौ । दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित्॥८.
; शुक्र उवाच हरिश्चन्द्रसमो राजा न भूतो न भविष्यति । यः शृणोति स्वदुः खार्तः स सुखं महदाप्नुयात्॥८.
स्वर्गार्थोप्राप्नुयात् स्वर्गं पुत्रार्थो पुत्रमाप्नुयात् । भार्यार्थो प्राप्नुयाद्भार्यां राज्यार्थो राज्यमाप्नुयात्॥८.
अहो तितिक्षामाहात्म्यमहो दानफलं महत् । यदागतो हरिश्चन्द्रः पुरीञ्चेन्द्रत्वमाप्तवान्॥८.
; पक्षिण ऊचुः एतत् ते सर्वमाख्यातं हरिश्चन्द्रविचेष्टितम् । अतः परं कथाशेषः श्रूयतां मुनिसत्तम॥८.
विपाको राजसूयस्य पृथिवीक्षयकारणम् । तद्विपाकनिमित्तञ्च युद्धमाडिबकं महत्॥८.
पक्षिण ऊचुः राज्यच्युते हरिश्चन्द्रे गते च त्रिदशालयम् । निश्चक्राम महातेजा जलवासात् पुरोहितः॥९.
वशिष्ठो द्वादशाब्दान्ते गङ्गापर्युषितो मुनिः । शुश्राव च समस्तन्तु विश्वामित्रविचेष्टितम्॥९.
हरिश्चन्द्रस्य नाशञ्च राज्ञश्चोदारकर्मणः । चण्डालसम्प्रयोगञ्च भार्यातनयविक्रयम्॥९.
स श्रुत्वा सुमाहभागः प्रीतिमानवनीपतौ । चकार कोपं तेजस्वी विश्वामित्रमृषिं प्रति॥९.
वशिष्ठ उवाच मम पुत्रशतं तेन विश्वामित्रेण घातितम् । तत्रापि नाभवत् क्रोधस्तादृशो यादृशोऽद्य मे॥९.
श्रुत्वा नराधिपमिमं स्वराज्यादवरोपितम् । महात्मानं महाभागं देवब्राह्मणपूजकम्॥९.
यस्मात् स सत्यवाक् शान्तः शत्रावपि विमत्सरः । अनागाश्चैव धर्मात्मा अप्रमत्तो मदाश्रयः॥९.