आरोह त्रिदिवं राजन् ! भार्यापुत्रसमन्वितः । सुदुष्प्राप्तं नरैरन्यैर्जितमात्मीयकर्मभिः॥८.
; पक्षिण ऊचुः ततोऽमृतमयं वर्षमपमृत्युविनाशनम् । इन्द्रः प्रासृजदाकाशाच्चितास्थानगतः प्रभुः॥८.
पुष्पवर्षञ्च सुमहद्देवदुन्दुभिनिस्वनम् । ततस्ततो वर्तमाने समाजे देवसंकुले॥८.
समुत्तस्थौ ततः पुत्रो राज्ञस्तस्य महात्मनः । सुकुमारतनुः सुस्थः प्रसन्नेन्द्रियमानसः॥८.
ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं क्षणात् । सभार्यः स श्रिया युक्तो दिव्यमाल्याम्बरान्वितः॥८.
सुस्थः सम्पूर्णहृदयो मुदा परमया युतः । बभूव तत्क्षणादिन्द्रो भूयश्चैनमभाषत॥८.
सभार्यस्त्वं सपुत्रश्च प्राप्स्यसे सद्गतिं पराम् । समारोह माहभाग निजानां कर्मणां फलैः॥८.
; हरिश्चन्द्र उवाच देवराजाननुज्ञातः स्वामिना श्वपचेन वै । अगत्वा निष्कृतिं तस्य नारोक्ष्येऽहं सुरालयम्॥८.
; धर्म उवाच तवैनं भाविनं क्लेशमवगम्यात्ममायया । आत्मा श्वपाकतां नीतो दर्शितं तच्च चापलम्॥८.
; इन्द्र उवाच प्रार्थ्यते यत् परं स्थानं समस्तैर्मनुजैर्भुवि । तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम्॥८.
; हरिश्चन्द्र उवाच देवाराज ! नमस्तुभ्यं वाक्यञ्चैतन्निबोध मे । प्रसादसुमुखं यत् त्वां ब्रवीमि प्रश्रयान्वितः॥८.
मच्छोकमग्नमनसः कोशलानगरे जनाः । तिष्ठन्ति तानपोह्याद्य कथं यास्याम्यहं दिवम्॥८.
ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा । तुल्यमेभिर्महापापं भक्तत्यागेऽप्युदाहृतम्॥८.
भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः सुखम् । नेह नामुत्र पश्यामि तस्माच्छक्र ! दिवं व्रज॥८.
यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर । ततोऽहमपि यास्यामि नरकं वापि तैः सह॥८.
; इन्द्र उवाच बहूनि पुण्यपापानि तेषां भिन्नानि वै पृथक् । कथं सङ्घातभोग्यं त्वं भूयः स्वर्गमवाप्स्यसि॥८.
; हरिश्चन्द्र उवाच शक्र भुङ्क्ते नृपो राज्यं प्रभावेण कुटुम्बिनाम् । यजते च महायज्ञैः कर्म पौर्तं करोति च॥८.
तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् । उपकर्तॄन् न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया॥८.
तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् । दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः॥८.
बहुकालोपभोग्यं हि फलं यन्मम कर्मणः । तदस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः॥८.
; पक्षिण ऊचुः एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः । प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः॥८.
विमानकोटिसम्बद्धं स्वर्गलोकान्महीतलम् । गत्वायोध्याजनं प्राह दिवमारुह्यतामिति॥८.
तदिन्द्रस्य वचः श्रुत्वा प्रीत्या तस्य च भूपतेः । आनीय रोहिताश्चञ्च विश्वामित्रो महातपाः॥८.
अयोध्याख्ये पुरे रम्ये सोऽभ्यसिञ्चन्नृपात्मजम् । देवैश्च मुनिभिः सिद्धैरभिषिच्य नराधिपम्॥८.
राज्ञा सह तदा सर्वे हृष्टपुष्टसुहृज्जनाः । सपुत्रभृत्यदारास्ते दिवमारुरुहुर्जनाः॥८.
पदे पदे विमानात् ते विमानमगमन् नराः । तदा सम्भूतहर्षोऽसौ हरिश्चन्द्रश्च पार्थिवः॥८.
सम्प्राप्य भूतिमतुलां विमानैः स महीपतिः । आसाञ्चक्रे पुराकारे वप्रप्राकारसंवृते॥८.
ततस्तस्यर्धिमालोक्य श्लोकं तत्रोशना जगौ । दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित्॥८.
; शुक्र उवाच हरिश्चन्द्रसमो राजा न भूतो न भविष्यति । यः शृणोति स्वदुः खार्तः स सुखं महदाप्नुयात्॥८.
स्वर्गार्थोप्राप्नुयात् स्वर्गं पुत्रार्थो पुत्रमाप्नुयात् । भार्यार्थो प्राप्नुयाद्भार्यां राज्यार्थो राज्यमाप्नुयात्॥८.