असिपत्रवने प्राप्य छेदं प्राप्स्यामि दारुणम् । तापं प्राप्स्यामि वा प्राप्य महारौरवरौरवौ॥८.
मग्नस्य दुः खजलधौ पारः प्राणवियोजनम् । एकोऽपि बालको योऽयमासीद्वंशकरः सुतः॥८.
मम दैवाम्बुवेगेन मग्नः सोऽपि बलीयसा । कथं प्राणान् विमुञ्चामि परायत्तोऽस्मि दुर्गतः॥८.
अथवा नार्तिना क्लिष्टो नरः पापमवेक्षते । तिर्यक्त्वे नास्ति तद्दुः शं नासिपत्रवने तथा॥८.
वैतरण्याङ्कुतस्तादृग् यादृशं पुत्रविप्लवे । सोऽहं सुतशिरीरेण दीप्यमाने हुताशने॥८.
निपतिष्यामि तन्वङ्गि क्षन्तव्यं कुकृतं मम । अनुज्ञाता च गच्छ त्वं विप्रवेश्म सुछिस्मिते॥८.
मम वाक्यञ्च तन्वङ्गि निबोधादृतमानसा । यदि दत्तं यदि हुतं गुरवो यदि तोषिताः॥८.
परत्र सङ्गमो भूयात् पुत्रेण सह च त्वया । इह लोके कुतस्त्वेतद् भविष्यति ममेङ्गितम्॥८.
त्वया सह मम श्रेयो गमनं पुत्रमार्गणे । यन्मया हसता किञ्चिद्रहस्ये वा शुचिस्मिते॥८.
अश्लीलमुक्तं तत् सर्वं क्षन्तव्यं मम याचतः । राजपत्नीति गर्वेण नावज्ञेयः स ते द्विजः । सर्वयत्नेन ते तोष्यः स्वामिदैवतवच्छुभे॥८.
; राजपत्न्युवाच अहमप्यत्र राजर्षे दीप्यमाने हुताशने । दुः खभारासहाद्यैव सह यास्यामि वै त्वया॥८.
; पक्षिण ऊचुः ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् । भार्यया सहितश्चासौ बद्धाञ्जलिपुटस्तदा॥८.
चिन्तयन् परमात्मानमीशं नारायणं हरिम् । हृत्कोटरगुहासीनं वासुदेवं सुरेश्वरम् । अनादिनिधनं ब्रह्म कृष्णं पीताम्बरं शुभम्॥८.
तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः॥८.
आगत्य सर्वे प्रोचुस्ते भो भो राजन् ! शृणु प्रभो । अयं पितामहः साक्षाद्धर्मश्च भगवान् स्वयम्॥८.
साध्याश्च विश्वे मरुतो लोकपालाः सवाहनाः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ॥८.
एते चान्ये च बहवो विश्वामित्रस्तथैव च । विश्वत्रयेण यो मित्रं कर्तुं न शकितः पुरा॥८.
विश्वामित्रस्तु ते मैत्रीमिष्टञ्चाहर्तुमिच्छति । आरुरोह ततः प्राप्तो धर्मः शक्रोऽथ गाधिजः॥८.
; धर्मि उवाच मा राजन् ! साहसं कार्षोर्धर्मोऽहं त्वामुपागतः । तितिक्षा-दम-सत्याद्यैः स्वगुणैः परितोषितः॥८.
; इन्द्र उवाच हरिश्चन्द्र माहभाग ! प्राप्तः शक्रोऽस्मितेऽन्तिकम् । त्वया सभार्यपुत्रेण जिता लोकाः सनातनाः॥८.
आरोह त्रिदिवं राजन् ! भार्यापुत्रसमन्वितः । सुदुष्प्राप्तं नरैरन्यैर्जितमात्मीयकर्मभिः॥८.
; पक्षिण ऊचुः ततोऽमृतमयं वर्षमपमृत्युविनाशनम् । इन्द्रः प्रासृजदाकाशाच्चितास्थानगतः प्रभुः॥८.
पुष्पवर्षञ्च सुमहद्देवदुन्दुभिनिस्वनम् । ततस्ततो वर्तमाने समाजे देवसंकुले॥८.
समुत्तस्थौ ततः पुत्रो राज्ञस्तस्य महात्मनः । सुकुमारतनुः सुस्थः प्रसन्नेन्द्रियमानसः॥८.
ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं क्षणात् । सभार्यः स श्रिया युक्तो दिव्यमाल्याम्बरान्वितः॥८.
सुस्थः सम्पूर्णहृदयो मुदा परमया युतः । बभूव तत्क्षणादिन्द्रो भूयश्चैनमभाषत॥८.
सभार्यस्त्वं सपुत्रश्च प्राप्स्यसे सद्गतिं पराम् । समारोह माहभाग निजानां कर्मणां फलैः॥८.
; हरिश्चन्द्र उवाच देवराजाननुज्ञातः स्वामिना श्वपचेन वै । अगत्वा निष्कृतिं तस्य नारोक्ष्येऽहं सुरालयम्॥८.
; धर्म उवाच तवैनं भाविनं क्लेशमवगम्यात्ममायया । आत्मा श्वपाकतां नीतो दर्शितं तच्च चापलम्॥८.
; इन्द्र उवाच प्रार्थ्यते यत् परं स्थानं समस्तैर्मनुजैर्भुवि । तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम्॥८.