प्रकृष्टा विस्मिता दीना भर्तृपुत्राधिपीडिता । वीक्षन्ती सा ततोऽपश्यद् भर्तृदण्डं जुगुप्सितम्॥८.
श्वपाकार्हमतो मोहं जगामायतलोचना । प्राप्य चेतश्च शनकैः सगद्गदमभाषत॥८.
धिक् त्वां दैवातिकरुणां निर्मर्यादं जुगुप्सितम् । येनायममरप्रख्यो नीतो राजा श्वपाकताम्॥८.
राज्यनाशं सुहृत्त्यागं भार्या-तनयविक्रयम् । प्रापयित्वापि नो कुक्तश्चण्डालोऽयं कृतो नृपः॥८.
हा राजन् ! जातसन्तापामित्थं मां धरणीतलात् । उत्थाप्य नाद्य पर्यङ्कमारोहेति किमुच्यते॥८.
नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः । चामरं व्यजनञ्चापि कोऽयं विधिविपर्ययः॥८.
यस्याग्रे व्रजतः पूर्वं राजानो भृत्यतां गताः । स्वोत्तरीयैरकुर्वन्त नीरजस्कं महीतलम्॥८.
सोऽयं कपालसंलग्न-घटीघटनिरन्तरे । मृतनिर्माल्यसूत्रान्तर्गूग्केशे सुदारुणे॥८.
वसानिस्यन्दसंशुष्क-महीपुटकमण्डिते । भस्माङ्गारार्धदग्धास्थि-मज्जासङ्घट्टभीषणे॥८.
गृध्र-गोमायुनादार्तनष्टक्षुद्रविहङ्गमे । चिताधूमाततिरुचा नीलीकृतदिगन्तरे॥८.
कुणपास्वादनमुदा सम्प्रहृष्टनिशाचरे । चरत्यमेध्ये राजेन्द्रः श्मशाने दुः खपीडितः॥८.
एवमुक्त्वा समाश्लिष्य कण्ठं राज्ञो नृपात्मजा । कष्टशोकशताधारा विललापार्तया गिरा॥८.
; राजपत्न्युवाच राजन् ! स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् । तत् कथ्यतां महाभाग मनो वै मुह्यते मम॥८.
यद्येतदेवं धर्मज्ञ नास्ति धर्मे सहायता । तथैव विप्रदेवादिपूजने पालने भुवः॥८.
नास्ति धर्मः कुतः सत्यमार्जवं चानृशंसता । यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः॥८.
इति तस्या वचः श्रुत्वा निश्वस्योष्णं सगद्गदम् । कथयामास तन्वङ्ग्या यथा प्राप्ता श्वपाकता॥८.
रुदित्वा सापि सुचिरं निश्वस्योष्णञ्च दुः खिता । स्वपुत्रमरणं भीरुर्यथावृत्तं न्यवेदयत्॥८.
; राजोवाच प्रिये ! न रोचये दीर्घं कालं क्लेशमुपासितुम् । नात्मायत्तश्च तन्वङ्गि पश्य मे मन्दभाग्यताम्॥८.
चण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि । चण्डालदासतां यास्ये पुनरप्यन्यजन्मनि॥८.
नरके च तपिष्यामि कोटकः कृमिभोजनः । वैतरण्यां महापूय-वसासृक्-स्नायुपिच्छिले॥८.
असिपत्रवने प्राप्य छेदं प्राप्स्यामि दारुणम् । तापं प्राप्स्यामि वा प्राप्य महारौरवरौरवौ॥८.
मग्नस्य दुः खजलधौ पारः प्राणवियोजनम् । एकोऽपि बालको योऽयमासीद्वंशकरः सुतः॥८.
मम दैवाम्बुवेगेन मग्नः सोऽपि बलीयसा । कथं प्राणान् विमुञ्चामि परायत्तोऽस्मि दुर्गतः॥८.
अथवा नार्तिना क्लिष्टो नरः पापमवेक्षते । तिर्यक्त्वे नास्ति तद्दुः शं नासिपत्रवने तथा॥८.
वैतरण्याङ्कुतस्तादृग् यादृशं पुत्रविप्लवे । सोऽहं सुतशिरीरेण दीप्यमाने हुताशने॥८.
निपतिष्यामि तन्वङ्गि क्षन्तव्यं कुकृतं मम । अनुज्ञाता च गच्छ त्वं विप्रवेश्म सुछिस्मिते॥८.
मम वाक्यञ्च तन्वङ्गि निबोधादृतमानसा । यदि दत्तं यदि हुतं गुरवो यदि तोषिताः॥८.
परत्र सङ्गमो भूयात् पुत्रेण सह च त्वया । इह लोके कुतस्त्वेतद् भविष्यति ममेङ्गितम्॥८.
त्वया सह मम श्रेयो गमनं पुत्रमार्गणे । यन्मया हसता किञ्चिद्रहस्ये वा शुचिस्मिते॥८.
अश्लीलमुक्तं तत् सर्वं क्षन्तव्यं मम याचतः । राजपत्नीति गर्वेण नावज्ञेयः स ते द्विजः । सर्वयत्नेन ते तोष्यः स्वामिदैवतवच्छुभे॥८.