अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः । जातो नीतः कृतान्तेन कामप्याशां दुरात्मना॥८.
एवं दृष्ट्वा हि मे बालं मातुरुत्सङ्गशायिनम् । स्मृतिमभ्यागतो बालो रोहिताश्वोऽब्जलोचनः॥८.
सोऽप्येतामेव मे वत्सो वयोऽवस्थामुपागतः । नीतो यदि न घोरेण कृतान्तेनात्मनो वशम्॥८.
; राजपत्न्युवाच हा वत्स ! कस्य पापस्य अपध्यानादिदं महत् । दुः खमापतितं घोरं यस्यान्तो नोपलभ्यते॥८.
हा नाथ ! राजन् ! भवता मामनाश्वास्य दुः खिताम् । क्वापि सन्तिष्ठता स्थाने विश्रब्धं स्थीयते कथम्॥८.
राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः । हरिश्चन्द्रस्य राजर्षेः किं विधे ! न कृतं त्वया॥८.
इति तस्या वचः श्रुत्वा राजा स्वस्थानतश्च्युतः । प्रत्यभिज्ञाय दयितां पुत्रञ्च निधनं गतम्॥८.
कष्टं शैव्येयमेषा हि स बालोऽयमितीरयन् । रुरोद दुः खसन्तप्तो मूर्च्छामभिजगाम च॥८.
सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् । मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले॥८.
चेतः सम्प्राप्य राजेन्द्रो राजपत्नी च तै समम् । विलेपतुः सुसन्तप्तौ शोकभारावपीडितौ॥८.
; राजोवाच हा वत्स ! सुकुमारं ते स्वक्षिभ्रूनासिकालकम् । पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते॥८.
तात ! तातेति मधुरं ब्रुवाणं स्वयमागतम् । उपगुह्य वदिष्ये कं वत्स ! वत्सेति सौहृदात्॥८.
कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना । ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति॥८.
अङ्गप्रत्यङ्गसम्भूतो मनोहृदयनन्दनः । मया कुपित्रा हा वत्स ! विक्रीतो येन वस्तुवत्॥८.
हृत्वा राज्यमशेषं मे ससाधनधनं महत् । दैवाहिना नृशंसेन दष्टो मे तनयस्ततः॥८.
अहं दैवाहिदष्टस्य पुत्रस्याननपङ्कजम् । निरीक्षन्नपि घोरेण विषेणान्धीकृतोऽधुना॥८.
एकमुक्त्तवा तमादाय बालकं बाष्पगद्गदः । परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह॥८.
; राजपत्न्युवाच अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते । विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः॥८.
तथास्य नासिका तुङ्गा अग्रतोऽधोमुखं गता । दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः॥८.
श्मशानमागतः कस्मादद्यैष स नरेश्वरः । अपहाय पुत्रशोकं सापश्यत् पतितं पतिम्॥८.
प्रकृष्टा विस्मिता दीना भर्तृपुत्राधिपीडिता । वीक्षन्ती सा ततोऽपश्यद् भर्तृदण्डं जुगुप्सितम्॥८.
श्वपाकार्हमतो मोहं जगामायतलोचना । प्राप्य चेतश्च शनकैः सगद्गदमभाषत॥८.
धिक् त्वां दैवातिकरुणां निर्मर्यादं जुगुप्सितम् । येनायममरप्रख्यो नीतो राजा श्वपाकताम्॥८.
राज्यनाशं सुहृत्त्यागं भार्या-तनयविक्रयम् । प्रापयित्वापि नो कुक्तश्चण्डालोऽयं कृतो नृपः॥८.
हा राजन् ! जातसन्तापामित्थं मां धरणीतलात् । उत्थाप्य नाद्य पर्यङ्कमारोहेति किमुच्यते॥८.
नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः । चामरं व्यजनञ्चापि कोऽयं विधिविपर्ययः॥८.
यस्याग्रे व्रजतः पूर्वं राजानो भृत्यतां गताः । स्वोत्तरीयैरकुर्वन्त नीरजस्कं महीतलम्॥८.
सोऽयं कपालसंलग्न-घटीघटनिरन्तरे । मृतनिर्माल्यसूत्रान्तर्गूग्केशे सुदारुणे॥८.
वसानिस्यन्दसंशुष्क-महीपुटकमण्डिते । भस्माङ्गारार्धदग्धास्थि-मज्जासङ्घट्टभीषणे॥८.
गृध्र-गोमायुनादार्तनष्टक्षुद्रविहङ्गमे । चिताधूमाततिरुचा नीलीकृतदिगन्तरे॥८.