एवं वर्षशतं पूर्णं गतं तत्र कुयोनिषु । अपश्यच्च कदाचित् स राजा तत् स्वकुलोद्भवम्॥८.
तत्र स्थितस्य तस्यापि राज्यं द्यूतेन हारितम् । भार्या हृता च पुत्रश्च स चैकाकी वनं गतः॥८.
तत्रापश्यत स सिंहं वै व्यादितास्यं भयावहम् । बिभक्षयिषुमायातं शरभेण समन्वितम्॥८.
पुनश्च भक्षितः सोऽपि भार्यां शोचितुमुद्यतः । हा शैव्ये ! क्व गतास्यद्य मामिहापास्य दुः खितम्॥८.
अपश्यत् पुनरेवापि भार्यां स्वं सहपुत्रकाम् । त्रायस्व त्वं हरिश्चन्द्र किं द्यूतेन तव प्रभो॥८.
पुत्रस्ते शोच्यतां प्राप्तो भर्यंया शैव्यया सह । स नापश्यत् पुनरपि धावमानः पुनः पुनः॥८.
अथापश्यत् पुनरपि स्वर्गस्थः स नराधिपः । नीयते मुक्तकेशी सा दीना विवसना बलात्॥८.
हाहावाक्यं प्रमुञ्चन्ती त्रायस्वेत्यसकृत्स्वना । अथापश्यत् पुनस्तत्र धर्मराजस्य शासनात्॥८.
आक्रान्दन्त्यन्तरीक्षस्था आगच्छेह नराधिप । विश्वामित्रेण विज्ञप्तो यमो राजंस्तवार्थतः॥८.
इत्युक्त्वा सर्पपाशैस्तु नीयते बलवद्विभुः । श्राद्धदेवेन कथितं विश्वामित्रस्य चेष्टितम्॥८.
तत्रापि तस्य विकृतिर्नाधर्मोत्था व्यवर्धत । एताः सर्वा दशास्तस्य याः स्वप्ने सम्प्रदर्शिताः॥८.
सर्वास्तास्तेन सम्भुक्ता यावद्वर्षाणि द्वादश । अतीते द्वादशे वर्ष नीयमानो भटैर्बलात्॥८.
यमं सोऽपश्यदाकारादुवाच च नराधिपम् । विश्वामित्रस्य कोपोऽयं दुर्निवार्यो महात्मनः॥८.
पुत्रस्य ते मृत्युमपि प्रदास्यति स कौशिकः । गच्छ त्वं मानुषं लोकं दुः खशेषञ्च भुङ्क्ष्व वै । गतस्य तत्र राजेन्द्र श्रेयस्तव भविष्यति॥८.
व्यतीते द्वादशे वर्षे दुः खस्यान्ते नराधिपः । अन्तरीक्षाच्च पतितो यमदूतैः प्रणोदितः॥८.
पतितो यमलोकाच्च विबुद्धो भयसम्भ्रमात् । अहो कष्टमिति ध्यात्वा क्षते क्षारावसेवनम्॥८.
स्वप्ने दुः खं महद्दृष्टं यस्यान्तो नोपलभ्यते । स्वप्ने दृष्टं मया यत्तु किं नु मे द्वादशाः समाः॥८.
गतेत्यपृच्छत् तत्रस्थान् पुक्कसांस्तु स सम्भ्रमात् । नेत्युचुः केचित् तत्रस्था एवमेवापरेऽब्रुवन्॥८.
श्रुत्वा दुः खी तदा राजा देवान् शरणमीयिवान् । स्वस्ति कुर्वन्तु मे देवाः शैव्याया बालकस्य च॥८.
नमो धर्माय महते नमः कृष्णाय वेधसे । परावराय शुद्धाय पुराणायाव्ययाय च॥८.
नमो बृहस्पते तुभ्यं नमस्ते वासवाय च । एवमुक्त्वा स राजा तु युक्तः पुक्कसकर्मणि॥८.
शवानां मूल्यकरणे पुनर्नष्टस्मृतिर्यथा । मलिनो जटिलः कृष्णो लकुटी विह्वलो नृपः॥८.
नैव पुत्रो न भार्या तु तस्य वै स्मृतिगोचरे । नष्टोत्साहो राज्यनाशात् श्मशाने निवसंस्तदा॥८.
अथाजगाम स्वसुतं मृतमादाय लापिनी । भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम्॥८.
हा वत्स ! हा पुत्र ! शिशो ! इत्येवं वदती मुहुः । कृशा विवर्णा विमनाः पांशुध्वस्तशिरोरुहा॥८.
; राजपत्न्युवाच हा राजन्नद्य बालं त्वं पश्य सोमं महीतले । रममाणं पुरा दृष्टं दुष्टाहिना मृतम्॥८.
तस्या विलापशब्दं तमाकर्ण्य स नराधिपः । जगाम त्वरितोऽत्रेति भविता मृतकम्बलः॥८.
स तां रोरुदतीं भार्यां नाभ्यजानात्तु पार्थिवः । चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम्॥८.
सापि तं चारुकेशान्तं पुरा दृष्ट्वा जटालकम् । नाभ्यजानान्नृपसुता शुष्कवृक्षोपमं नृपम्॥८.
सोऽपि कृष्णपटे बालं दृष्ट्वाशीविषपीडितम् । नरेन्द्रलक्षणोपेतं चिन्तामाप नरेश्वरः॥८.