सवह्निगर्भैरशिवैः शिवारुतैर् निनादितं भीषणरावगह्वरम् । भयं भयस्याप्युपसञ्जनैर्भृशं श्मशानमाक्रन्दविरावदारुणम्॥८.
स राजा तत्र सम्प्राप्तो दुः खितः शोचनोद्यतः । हा भृत्या मन्त्रिणो विप्राः तद्राज्यं विधे गतम्॥८.
हा शैव्ये पुत्र हा बाल मां त्यक्त्वा मन्दभाग्यकम् । विश्वामित्रस्य दोषेण गताः कुत्रापि ते मम॥८.
इत्येवं चिन्तयंस्तत्र चण्डालोक्तं पुनः पुनः । मलिनो रूक्षसर्वाङ्गः केशवान् गन्धवान् ध्वजी॥८.
लकुटी कालकल्पश्च धावंश्चापि ततस्ततः । अस्मिन् शव इदं मूल्यं प्राप्तं प्राप्स्यामि चाप्युत॥८.
इदं मम इदं राज्ञे मुख्यचण्डालके त्विदम् । इति धावन् दिशो राजा जीवन् योन्यन्तरं गतः॥८.
जीर्णकर्पण्टसुग्रन्थि-कृतकन्थापरिग्रहः चिताभस्मरजोलिप्त-मुखबाहूदराङिघ्रकः॥८.
नानामेदो-वसा-मज्जा लिप्तपाण्यङ्गुलिः श्वसन् । नानाशवोदनकृता-हारतृप्तिपरायणः॥८.
तदीयमाल्यसंश्लेषकृतमस्तकमण्डनः । न रात्रौ न दिवा शेते हा हेति प्रवदन् मुहुः॥८.
एवं द्वादशमासास्तु नीताः शतसमोपमाः । स कदाचिन्नृपश्रेष्ठः श्रान्तो बन्धुवियोगवान्॥८.
निद्राभिभूतो रूक्षाङ्गो निश्चेष्टः सुप्त एव च । तत्रापि शयनीये स दृष्टवानद्भुतं हमत्॥८.
श्मशानाभ्यासयोगेन दैवस्य बलवत्तया । अन्यदेहेन दत्त्वा तु गुरवे गुरुदक्षिणाम्॥८.
तदा द्वादश वर्षाणि दुः खदानात्तु निष्कृतिः । आत्मानं स ददर्शाथ पुक्कसीगर्भसम्भवम्॥८.
तत्रस्थश्चाप्यसौ राजा सोऽचिन्तयदिदं तदा । इतो निष्क्रान्तमात्रो हि दानधर्मं करोम्यहम्॥८.
अनन्तरं स जातस्तु तदा पुक्कसबालकः । श्मशानमृतसंस्कार-करणेषु सदोद्यतः॥८.
प्राप्ते तु सप्तमे वर्षे श्मशानेऽथ मृतो द्विजः । आनीतो बन्धुभिर्दृष्टस्तेन तत्राधनो गुणी॥८.
मूल्यार्थिना तु तेनापि परिभूतास्तु ब्राह्मणाः । ऊचुस्ते ब्राह्मणास्तत्र विश्वामित्रस्य चेष्टितम्॥८.
पापिष्ठमशुभं कर्म कुरु त्वं पापकारक । हरिश्चन्द्रः पुरा राजा विश्वामित्रेण पुक्कसः॥८.
कृतः पुण्यविनाशेन ब्राह्मणस्वापनाशनात् । यदा न क्षमते तेषां तैः स शप्तो रुषा तदा॥८.
गच्छ त्वं नरकं घोरमधुनैव नराधम । इत्युक्तमात्रे वचने स्वप्नस्थः स नृपस्तदा॥८.
अपश्यद्यमदूतान् वै पाशहस्तान् भयावहान् । तैः संगृहीतमात्मानं नीयमानं तदा बलात्॥८.
पश्यति स्म भृशं खिन्नो हा मातः पितरद्य मे । एवंवादी स नरके तैलद्रोण्यां निपातितः॥८.
क्रकचैः पाट्यमानस्तु क्षुरधाराभिरप्यधः । अन्धे तमसि दुः खार्तः पूयशोणितभोजनः॥८.
सप्तवर्षं मृतात्मानं पुक्कसत्वे ददर्श ह । दिनं दिनन्तु नरके दह्यते पच्यतेऽन्यतः॥८.
खिद्यते क्षोभ्यतेऽन्यत्र मार्यते पाट्यतेऽन्यतः । क्षार्यते दीप्यतेऽन्यत्र शीतवाताहतोऽन्यतः॥८.
एवं दिनं वर्षशत-प्रमाणं नरकेऽभवत् । तथा वर्षशतं तत्र श्रीवितं नरके भटैः॥८.
ततो निपातितो भूमौ विष्ठाशी श्वा व्यजायत । वान्ताशी शीतदग्धश्च मासमात्रे मृतोऽपि सः॥८.
अथापश्यत् खरं देहं हस्तिनं वानरं पशुम् । छागं विडालं कङ्कञ्च गामविं पक्षिणं कृमिम्॥८.
मत्स्यं कूर्मं वराहञ्च श्वाविधं कुक्कुटं शुकम् । शारिकां स्थावरांश्चैव सर्पमन्यांश्व देहिनः॥८.
दिवसे दिवसे जन्म प्राणिनः प्राणिनस्तदा । अपश्यद् दुः खसन्तप्तो दिनं वर्षशतं तथा॥८.