हरिश्चन्द्रस्ततो राजा वसंश्चण्डालपत्तने । प्रातर्मध्याह्नसमये सायञ्चैतदगायत॥८.
बाला दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां स्मरत्यसुखाविष्टा मोचयिष्यति नौ नृपः॥८.
उपात्तवित्तो विप्राय दत्त्वा वित्तमतोऽधिकम् । न सा मां मृगशावाक्षी वेत्ति पापतरं कृतम्॥८.
राज्यनाशः सुहृत्त्यागो भर्यातनयविक्रयः । प्राप्ता चण्डालता चेयमहो दुः खपरम्परा॥८.
एवं स निवसन् नित्यं सस्मार दयितं सुतम् । आर्याञ्चात्मसमाविष्टां हृतसर्वस्व आतुरः॥८.
कस्यचित्त्वथ कालस्य मृतचेलापहारकः । हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः॥८.
चण्डालेनानुशिष्टश्व मृतचेलापहारिणा । शवागमनमन्विच्छन्निह तिष्ठ दिवानिशम्॥८.
इदं राज्ञेऽपि देयञ्च षड्भागन्तु शवं प्रति । त्रयस्तु मम भागाः स्युर्द्वो भागौ तव वेतनम्॥८.
इति प्रतिसमादिष्टो जगाम शवमन्दिरम् । दिशन्तु दक्षिणां यत्र वाराणस्यां स्थितं तदा॥८.
श्मशानं घोरसंनादं शिवाशतसमाकुलम् । शवमौलिसमाकीर्णं दुर्गन्धं बहुधूमकम्॥८.
पिशाच-भूत-वेताल-डाकिनी-यक्षसङ्कुलम् । गृध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम्॥८.
अस्थिसंघातसङ्कीर्णं महादुर्गन्धसंकुलम् । नानामृतसुहृन्नाद-रौद्रकोलाहलायुतम्॥८.
हा पुत्र ! मित्र ! हा बन्धो ! भ्रातर्वत्स ! प्रियाद्य मे । हा पते ! भगिनि ! मातर्हा मातुल ! पितामह॥८.
मातामह ! पितः ! क्व गतोऽस्येहि बान्धव । इत्येवं वदतां यत्र ध्वनिः संश्रुयते महान्॥८.
ज्वलन्मांस-वसा-मेदच्छमच्छमितसंकुलम्॥८.
अर्धदग्धाः शवाः श्यामा विकसद्दन्तपङ्क्तयः । हसन्तीवाग्निमध्यस्थाः कायस्येयं दशा त्विति॥८.
अग्नेश्चटचटाशब्दो वयसामस्थिपङ्क्तिषु । बान्धवाक्रान्दशब्दश्च पुक्कसेषु प्रहर्षजः॥८.
गायतां भूत-वेताल-पिशाचगणः रक्षसाम् । श्रूयते सुमहान् घोरः कल्पान्त इव निः स्वनः॥८.
महामहिषकारीष-गोशकृद्राशिसङ्कुलम् । तदुत्थभस्मकूटैश्च वृतं सास्थिभिरुन्नतैः॥८.
नानोपहारस्त्रग्दीप-काकविक्षेपकालिकम् । अनेकशब्दबहुलं श्मशानं नरकायते॥८.
सवह्निगर्भैरशिवैः शिवारुतैर् निनादितं भीषणरावगह्वरम् । भयं भयस्याप्युपसञ्जनैर्भृशं श्मशानमाक्रन्दविरावदारुणम्॥८.
स राजा तत्र सम्प्राप्तो दुः खितः शोचनोद्यतः । हा भृत्या मन्त्रिणो विप्राः तद्राज्यं विधे गतम्॥८.
हा शैव्ये पुत्र हा बाल मां त्यक्त्वा मन्दभाग्यकम् । विश्वामित्रस्य दोषेण गताः कुत्रापि ते मम॥८.
इत्येवं चिन्तयंस्तत्र चण्डालोक्तं पुनः पुनः । मलिनो रूक्षसर्वाङ्गः केशवान् गन्धवान् ध्वजी॥८.
लकुटी कालकल्पश्च धावंश्चापि ततस्ततः । अस्मिन् शव इदं मूल्यं प्राप्तं प्राप्स्यामि चाप्युत॥८.
इदं मम इदं राज्ञे मुख्यचण्डालके त्विदम् । इति धावन् दिशो राजा जीवन् योन्यन्तरं गतः॥८.
जीर्णकर्पण्टसुग्रन्थि-कृतकन्थापरिग्रहः चिताभस्मरजोलिप्त-मुखबाहूदराङिघ्रकः॥८.
नानामेदो-वसा-मज्जा लिप्तपाण्यङ्गुलिः श्वसन् । नानाशवोदनकृता-हारतृप्तिपरायणः॥८.
तदीयमाल्यसंश्लेषकृतमस्तकमण्डनः । न रात्रौ न दिवा शेते हा हेति प्रवदन् मुहुः॥८.
एवं द्वादशमासास्तु नीताः शतसमोपमाः । स कदाचिन्नृपश्रेष्ठः श्रान्तो बन्धुवियोगवान्॥८.