; पक्षिण ऊचुः तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः । कोपामर्षविवृताक्षः प्राह चेदं नराधैपम्॥८.
; विश्वामित्र उवाच चण्डालोऽयमनल्पं ते दातुं वित्तमुपस्थितः । कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा॥८.
; हरिश्चन्द्र उवाच भगवन् ! सूर्यवंशोत्थमात्मानं वेद्मे कौशिक । कथं चण्डालदासत्वं गमिष्ये वित्तकामुकः॥८.
; विश्वामित्र उवाच यदि चण्डालवित्तं त्वमात्मविक्रयजं मम । न प्रदास्यसि कालेन शाप्स्यामि त्वामसंशयम्॥८.
; पक्षिण ऊचुः हरिश्चन्द्रस्ततो राजा चिन्तावस्थितजीवितः । प्रसीदेति वदन् पादावृषेर्जग्राह विह्वलः॥८.
दासोऽस्म्यार्तोऽस्मि भीतोऽस्मि त्वद्भक्तश्च विशेषतः । कुरु प्रसादं विप्रर्षे कष्टश्चण्डालसङ्करः॥८.
भवेयं वित्तशेषेण सर्वकर्मकरो वशः । तवैव मुनिशार्दूल ! प्रेष्यश्चित्तानुवर्तकः॥८.
; विश्वामित्र उवाच यदि प्रेष्यो मम भवान् चण्डालाय ततो मया । दासभावमनुप्राप्तो दत्तो वित्तार्बुदेन वै॥८.
; पक्षिण ऊचुः एकमुक्ते तदा तेन श्वपाको हृष्टमानसः । विश्वामित्राय तद्द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम्॥८.
दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् । इष्टबन्धुवियोगार्तमनयन्निजपत्तनम्॥८.
हरिश्चन्द्रस्ततो राजा वसंश्चण्डालपत्तने । प्रातर्मध्याह्नसमये सायञ्चैतदगायत॥८.
बाला दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां स्मरत्यसुखाविष्टा मोचयिष्यति नौ नृपः॥८.
उपात्तवित्तो विप्राय दत्त्वा वित्तमतोऽधिकम् । न सा मां मृगशावाक्षी वेत्ति पापतरं कृतम्॥८.
राज्यनाशः सुहृत्त्यागो भर्यातनयविक्रयः । प्राप्ता चण्डालता चेयमहो दुः खपरम्परा॥८.
एवं स निवसन् नित्यं सस्मार दयितं सुतम् । आर्याञ्चात्मसमाविष्टां हृतसर्वस्व आतुरः॥८.
कस्यचित्त्वथ कालस्य मृतचेलापहारकः । हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः॥८.
चण्डालेनानुशिष्टश्व मृतचेलापहारिणा । शवागमनमन्विच्छन्निह तिष्ठ दिवानिशम्॥८.
इदं राज्ञेऽपि देयञ्च षड्भागन्तु शवं प्रति । त्रयस्तु मम भागाः स्युर्द्वो भागौ तव वेतनम्॥८.
इति प्रतिसमादिष्टो जगाम शवमन्दिरम् । दिशन्तु दक्षिणां यत्र वाराणस्यां स्थितं तदा॥८.
श्मशानं घोरसंनादं शिवाशतसमाकुलम् । शवमौलिसमाकीर्णं दुर्गन्धं बहुधूमकम्॥८.
पिशाच-भूत-वेताल-डाकिनी-यक्षसङ्कुलम् । गृध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम्॥८.
अस्थिसंघातसङ्कीर्णं महादुर्गन्धसंकुलम् । नानामृतसुहृन्नाद-रौद्रकोलाहलायुतम्॥८.
हा पुत्र ! मित्र ! हा बन्धो ! भ्रातर्वत्स ! प्रियाद्य मे । हा पते ! भगिनि ! मातर्हा मातुल ! पितामह॥८.
मातामह ! पितः ! क्व गतोऽस्येहि बान्धव । इत्येवं वदतां यत्र ध्वनिः संश्रुयते महान्॥८.
ज्वलन्मांस-वसा-मेदच्छमच्छमितसंकुलम्॥८.
अर्धदग्धाः शवाः श्यामा विकसद्दन्तपङ्क्तयः । हसन्तीवाग्निमध्यस्थाः कायस्येयं दशा त्विति॥८.
अग्नेश्चटचटाशब्दो वयसामस्थिपङ्क्तिषु । बान्धवाक्रान्दशब्दश्च पुक्कसेषु प्रहर्षजः॥८.
गायतां भूत-वेताल-पिशाचगणः रक्षसाम् । श्रूयते सुमहान् घोरः कल्पान्त इव निः स्वनः॥८.
महामहिषकारीष-गोशकृद्राशिसङ्कुलम् । तदुत्थभस्मकूटैश्च वृतं सास्थिभिरुन्नतैः॥८.
नानोपहारस्त्रग्दीप-काकविक्षेपकालिकम् । अनेकशब्दबहुलं श्मशानं नरकायते॥८.