पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा । द्रोणपुत्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्रचिन्तकाः॥१.
वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः । विन्ध्यकन्दरमध्यस्थास्तानुपास्य च पृच्छ च॥१.
एवमुक्तस्तदा तेन मार्कण्डेयेन धीमता । प्रत्युवाचर्षिशार्दूलो विस्मयोत्फुल्ललोचनः॥१.
जैमिनिरुवाच अत्यद्भुतमिदं ब्रह्मन् खगवागिव मानुषी । यत् पक्षिणस्ते विज्ञानमापुरत्यन्तदुर्लभम्॥१.
तिर्यग्योन्यां यदि भवस्तेषां ज्ञानं कुतोऽभवत् । कथञ्च द्रोणतनयाः प्रोच्यन्ते ते पतत्रिणः॥१.
कश्च द्रोणः प्रविख्यातो यस्य पुत्रचतुष्टयम् । जातं गुणवतां तेषां धर्मज्ञानं महात्मनाम्॥१.
मार्कण्डेय उवाच शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा । शक्रस्याप्यसरसां चैव नारदस्य च सङ्गमे॥१.
नारदो नन्दनेऽपश्यत् पुंश्चलीगणमध्यगम् । शक्रं सुराधिराजानं तन्मुखासक्तलोचनम्॥१.
स तेनर्षिवरिष्ठेन दृष्टमात्रः शचीपतिः । समुत्तस्थौ स्वकं चास्मै ददावासनमादरात्॥१.
तं दृष्ट्वा बलवृत्रघ्नमुत्थितं त्रिदशाङ्गनाः । प्रणेमुस्ताश्च देवर्षि विनयावनताः स्थिताः॥१.
ताभिरभ्यर्चितः सोऽथ उपविष्टे शतक्रतौ । यथार्हं कृतसम्भाषः कथाश्चक्रे मनोरमाः॥१.
शक्र उवाच ततः कथान्तरे शक्रस्तमुवाच महामुनिम् । देह्याज्ञां नृत्यतामासां तव याभिमतेति वै॥१.
रम्भा वा कर्कशा वाथ उर्वश्यथ तिलोत्तमा । घृताची मेनका वापि यत्र वा भवतो रुचिः॥१.
एतच्छ्रुत्वा द्विजश्रेष्ठो वचो शक्रस्य नारदः । विचिन्त्याप्सरसः प्राह विनयावनताः स्थिताः॥१.
युष्माकमिह सर्वासां रूपौदार्यगुणाधिकम् । आत्मानं मन्यते या तु सा नृत्यतु ममाग्रतः॥१.
गुणरूपविहीनायाः सिद्धिर्नाट्यस्य नास्ति वै । चार्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बनम्॥१.
तद्वाक्यसमकालं च एकैकास्ता नतास्ततः । अहं गुणाधिका न त्वं न त्वं चान्याब्रवीदिदम्॥१.
मार्कण्डेय उवाच तासां संभ्रममालोक्य भगवान् पाकशासनः । पृच्छ्यतां मुनिरित्याह वक्ता यां वो गुणाधिकाम्॥१.
शक्रच्छन्दानुयाताभिः पृष्टस्ताभिः सनारदः । प्रोवाच यत् तदा वाक्यं जैमिने तन्निबोध मे॥१.
तपस्यन्तं नगेन्द्रस्थं या वः क्षोभयते बलात् । दुर्वाससं मुनिश्रेष्ठं तां वो मन्ये गुणाधिकाम्॥१.
मार्कण्डेय उवाच तस्य तद्वचनं श्रुत्वा सर्वा वेपतकन्धराः । अशक्यमेतदस्माकमिति ताश्चक्रिरे कथाः॥१.
तत्राप्सरा वपुर्नाम मुनिक्षोभणगर्विता । प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः॥१.
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् । स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्॥१.
ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः । तमप्यद्य करिष्यामि कामबाणक्षतान्तरम्॥१.
इत्युक्त्वा प्रजगामाथ प्रालेयाद्रिं वपुस्तदा । मुनेस्तपः प्रभावेण प्रशान्तश्वापदाश्रमम्॥१.
स पुंस्कोकिलमाधुर्या यत्रास्ते स महामुनिः । क्रोशमात्रं स्थिता तस्मादगायत वराप्सराः॥१.
तद्गीतध्वनिमाकर्ण्य मुनिर्विस्मितमानसः । जगाम तत्र यत्रास्ते सा बाला रुचिरानना॥१.
तां दृष्ट्वा चारुसर्वाङ्गीं मुनिः संस्तभ्य मानसम् । क्षोभणायागतां ज्ञात्वा कोपामर्षसन्वितः॥१.
उवाचेदं ततो वाक्यं महर्षिस्तां महातपाः॥१.
यस्माद्दुः खार्जितस्येह तपसो विध्नकारणात् । आगतासि मदोन्मत्ते मम दुः खाय खेचरि॥१.