यां न वायुर्न चादित्यो नेन्दुर्न च पृथग्जनः । दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता॥८.
सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः । सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम्॥८.
हा प्रिये ! हा शिशो ! नत्स ! ममानार्यस्य दुर्नयैः । दैवाधीनां दशां प्राप्तो न मृतोऽस्मि तथापि धिक्॥८.
; पक्षिण ऊचुः एवं विलपतो राज्ञः स विप्रोऽन्तरधीयत । वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः॥८.
विश्वामित्रस्ततः प्राप्तो नृपं वित्तमयाचत । तस्मै समर्पयामास हरिश्चन्द्रोऽपि तद्धनम्॥८.
तद्वित्तं स्तोकमालोक्य दारविक्रयसम्भवम् । शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत्॥८.
क्षत्रबन्धो ! ममेमां त्वं सदृशीं यज्ञदक्षिणाम् । मन्यसे यदि तत् क्षिप्रं पश्य त्वं मे बलं परम्॥८.
तपसोऽत्र सुतप्तस्य ब्राह्मण्यस्यामलस्य च । मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च॥८.
अन्यां दास्यामि भगवन् ! कालः कश्चित्प्रतीक्ष्यताम् । साम्प्रतं नास्ति विक्रीता पत्नी पुत्रश्च बालकः॥८.
; विश्वामित्र उवाच चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप । एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया॥८.
; पक्षिण ऊचुः तमेवमुक्त्वा राजेन्द्रं निष्ठुरं निर्घृणं वचः । तदादाय धनं तूर्णं कुपितः कौशिको ययौ॥८.
विश्वामित्रे गते राजा भयशोकाब्धिमध्यगः । सर्वाकारं विनिश्चित्य प्रोवाचोच्चैरधोमुखः॥८.
वित्तक्रीतेन यो ह्यर्थो मया प्रेष्येण मानवः । स ब्रवीतु त्वरायुक्तो यावत् तपति भास्करः॥८.
अथाजगाम त्वरितो धर्मश्चण्डालरूपधृक् । दुर्गन्धो विकृतो रूक्षः श्मश्रुलो दन्तुरो घृणी॥८.
कृष्णो लम्बोदरः पिङ्गरूक्षाक्षः परुषाक्षरः । गृहीतपक्षिपुञ्जश्च शवमाल्यैरलङ्कृतः॥८.
कपालहस्तो दीर्घास्यो भैरवोऽतिवदन् मुहुः । श्वगणाभिवृतो घोरो यष्टिहस्तो निराकृतिः॥८.
; चण्डाल उवाच अहमर्थो त्वया शीघ्रं कथयस्वात्मवेतनम् । स्तोकेन बहुना वापि येन वै लभ्यते भवान्॥८.
; पक्षिण ऊचुः तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिष्ठुरम् । वदन्तमतिदुः शीलं कस्त्वमित्याह पार्थिवः॥८.
; चण्डाल उवाच चण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे । विख्यातो वध्यवधको मृतकम्बलहारकः॥८.
; हरिश्चन्द्र उवाच नाहं चण्डालदासत्वमिच्छेयं सुविगर्हितम् । वरं सापाग्निना दग्धो न चण्डालवशं गतः॥८.
; पक्षिण ऊचुः तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः । कोपामर्षविवृताक्षः प्राह चेदं नराधैपम्॥८.
; विश्वामित्र उवाच चण्डालोऽयमनल्पं ते दातुं वित्तमुपस्थितः । कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा॥८.
; हरिश्चन्द्र उवाच भगवन् ! सूर्यवंशोत्थमात्मानं वेद्मे कौशिक । कथं चण्डालदासत्वं गमिष्ये वित्तकामुकः॥८.
; विश्वामित्र उवाच यदि चण्डालवित्तं त्वमात्मविक्रयजं मम । न प्रदास्यसि कालेन शाप्स्यामि त्वामसंशयम्॥८.
; पक्षिण ऊचुः हरिश्चन्द्रस्ततो राजा चिन्तावस्थितजीवितः । प्रसीदेति वदन् पादावृषेर्जग्राह विह्वलः॥८.
दासोऽस्म्यार्तोऽस्मि भीतोऽस्मि त्वद्भक्तश्च विशेषतः । कुरु प्रसादं विप्रर्षे कष्टश्चण्डालसङ्करः॥८.
भवेयं वित्तशेषेण सर्वकर्मकरो वशः । तवैव मुनिशार्दूल ! प्रेष्यश्चित्तानुवर्तकः॥८.
; विश्वामित्र उवाच यदि प्रेष्यो मम भवान् चण्डालाय ततो मया । दासभावमनुप्राप्तो दत्तो वित्तार्बुदेन वै॥८.
; पक्षिण ऊचुः एकमुक्ते तदा तेन श्वपाको हृष्टमानसः । विश्वामित्राय तद्द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम्॥८.
दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् । इष्टबन्धुवियोगार्तमनयन्निजपत्तनम्॥८.