ऋणं धारयतो दुः खमहन्यहनि वर्धन्ते । आप्याय्यमानः स तदा हिमशीतेन वारिणा॥८.
अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च । पुनर्मोहं समापेदे स च क्रोधं ययौ मुनिः॥८.
स समाश्वास्य राजानं वाक्यमाह द्विजोत्तमः । दीयतां दक्षिणा सा मे यदि धर्ममवेक्षसे॥८.
सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी । सत्यं चोक्तं परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः॥८.
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥८.
अथवा किं ममैतेन साम्ना प्रोक्तेन कारणम् । अनार्त्ये पापसङ्कल्पे क्रूरे चानृतवादिनि॥८.
त्वयि राज्ञि प्रभवति सद्भावः श्रूयतामयम् । अद्य मे दक्षिणां राजन् न दास्यति भवान् यदि॥८.
अस्ताचलं प्रयातेर्ऽके शप्स्यामि त्वां ततो ध्रुवम् । इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः॥८.
कान्दिग्भूतोऽधमो निः स्वो नृशंसधनिनार्दितः । भार्यास्य भूयः प्राहेदं क्रियतां वचनं मम॥८.
मा शापानलनिर्दग्धः पञ्चत्वमुपयास्यसि । स तथा चोद्यमानस्तु राजा पत्न्या पुनः पुनः॥८.
प्राह भद्रे करोम्येष विक्रयं तव निर्घृणः । नृशंसैरपि यद् कर्तुं न शक्यं तत् करोम्यहम्
यदि मे शक्यते वाणी वक्तुमीदृक् सुदुर्वचः । एवमुक्त्वा ततो भार्यां गत्वा नागरमातुरः । बाष्पापिहितकण्ठाक्षस्ततो वचनमब्रवीत्॥८.
; राजोवाच भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम । किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः॥८.
राक्षसो वातिकठिनस्ततः पापतरोऽपि वा । विक्रेतुं दयितां प्राप्तो यो न प्राणांस्त्यजाम्यहम्॥८.
यदि वः कस्यचित् कार्यं दास्या प्राणेष्टया मम । स ब्रीवीतु त्वरायुक्तो यावत् सन्धारयाम्यहम्॥८.
; पक्षिण ऊचुः अथ वृद्धो द्विजः कश्चिदागत्याह नराधिपम् । समर्पयस्व मे दासीमहं क्रेता धनप्रदः॥८.
अस्ति मे वित्तमस्तोकं सुकुमारी च मे प्रिया । गृहकर्म न शक्नोति कर्तुमस्मात् प्रयच्छ मे॥८.
कर्मण्यता-वयो-रूप-शीलानां तव योषितः । अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम्॥८.
एवमुक्तस्य विप्रेण हरिश्चन्द्रस्य भूपतेः । व्यदीर्यत मनो दुः खान्न चैनं किञ्चिदब्रवीत्॥८.
ततः स विप्रो नृपतेर्वल्कलान्ते दृढं धनम् । बद्ध्वा केशेष्वथादाय नृपपत्नीमकर्षयत्॥८.
रुरोद रोहिताश्वोऽपि दृष्ट्वा कृष्टां तु मातरम् । हस्तेन वस्त्रमाकर्षन् काकपक्षधरः शिशुः॥८.
; राजपत्न्युवाच मुञ्चार्य मुञ्च तावन्मां यावत्पश्याम्यहं शिशुम् । दुर्लभं दर्शनं तात पुनरस्य भविष्यति॥८.
पश्यैहि वत्स मामेवं मातरं दास्यतां गताम् । मां मा स्प्रार्क्षो राजपुत्र ! अस्पृश्याहं तवाधुना॥८.
ततः स बालः सहसा दृष्ट्वा कृष्टां तु मातरम् । समभ्यधावदम्बेति रुदन् सास्त्राविलेक्षणः॥८.
तमागतं द्विजः क्रोधाद्वालमभ्याहनत् पदा । वदंस्तथापि सोऽम्बेति नैवामुञ्चत मातरम्॥८.
; राजपत्न्युवाच प्रसादं कुरु में नाथ क्रीणीष्वेमं च बालकम् । क्रीतापि नाहं भवतो विनैनं कार्यसाधिका॥८.
इत्थं ममाल्पभाग्यायाः प्रसादसुमुखो भव । मां संयोजय बालेन वत्सेनेव पयस्विनीम्॥८.
; ब्राह्मण उवाच गृह्यतां वित्तमेतत् ते दीयतां बालको मम । स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् । शतं सहस्रं लक्षं च कोटिमूल्यं तथा परैः॥८.
; पक्षिण ऊचुः तथैव तस्य तद्वित्तं बद्ध्वोत्तरपटे ततः । प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत्॥८.
नीयमानौ तु तौ दृष्ट्वा भार्या-पुत्रौ स पार्थिवः । विललाप सुदुः खार्तो निः श्वस्योष्णं पुनः पुनः॥८.