नातः परतरं धर्मं वदन्ति पुरुषस्य तु । यादृशं पुरुषव्याघ्र स्वसत्यपरिपालनम्॥८.
अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः । भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम्॥८.
सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् । तारणायानृतं तद्वत् पातनायाकृतात्मनाम्॥८.
सप्ताश्वमेधानाहृत्य राजसूयं च पार्थिवः । कृतिर्नाम च्युतः स्वर्गादसत्यवचनात् सकृत्॥८.
राजन् जातमपत्यं मे इत्युक्त्वा प्ररुरोद ह । बाष्पाम्बुप्लुतनेत्रान्तामुवाचेदं महीपतिः॥८.
; हरिश्चन्द्र उवाच विमुञ्च भद्रे सन्तापमयं तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वा त्वं गजगामिनि॥८.
; पत्न्युवाच राजन् जातमपत्यं मे सतां पुत्रफलाः स्त्रियः । स मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम्॥८.
; पक्षिण ऊचुः एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य च संज्ञां स विललापातिदुः खितः॥८.
महद्दुः खमिदं भद्रे यत् त्वमेवं ब्रवीषि माम् । किं तव स्मितसंलापा मम पापस्य विस्मृताः॥८.
हा हा कथं त्वया शक्यं वक्तुमेतत् शुचिस्मिते । दुर्वाच्यमेतद्वचनं कर्तुं शक्नोम्यहं कथम्॥८.
इत्युक्त्वा स नरश्रेष्ठो धिग्धिगित्यसकृद् ब्रुवन् । निपपात महीपृष्ठे मूर्च्छयाभिपरिप्लुतः॥८.
शयानं भुवि तं दृष्ट्वा हरिश्चन्द्रं महीपतिम् । उवाचेदं सकरुणं राजपत्नी सुदुः खिता॥८.
; पत्न्युवाच हा महारजा कस्येदमपध्यानमुपस्थितम् । यत् त्वं निपतितो भूमौ राङ्कवास्तरणोचितः॥८.
येन कोट्यग्रगोवित्तं विप्राणामपवर्जितम् । स एष पृथिवीनाथो भूमौ स्वपिति मे पतिः॥८.
हा कष्टं किं तवानेन कृतं देव ! महीक्षिता । यदिन्द्रोपेन्द्रतुल्योऽयं नीतः प्रस्वापनीं दशाम्॥८.
इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह । भर्तृदुः खमहाभारेणासह्येन निपीडिता॥८.
तौ तथा पतितौ भूमावनाथौ पितरौ शिशुः । दृष्ट्वात्यन्तं क्षुधाविष्टः प्राह वाक्यं सुदुः खितः॥८.
तात तात ! ददस्वान्नमम्बाम्ब ! भोजनं दद । क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा॥८.
; पक्षिण ऊचुः एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः । दृष्ट्वा तु तं हरिश्चन्द्रं पतितं भुवि मूर्च्छितम्॥८.
स वारिणा समभ्युक्ष्य राजानमिदमब्रवीत् । उत्तिष्ठोतिष्ठ राजेन्द्र तां ददस्वेष्टदक्षिणाम्॥८.
ऋणं धारयतो दुः खमहन्यहनि वर्धन्ते । आप्याय्यमानः स तदा हिमशीतेन वारिणा॥८.
अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च । पुनर्मोहं समापेदे स च क्रोधं ययौ मुनिः॥८.
स समाश्वास्य राजानं वाक्यमाह द्विजोत्तमः । दीयतां दक्षिणा सा मे यदि धर्ममवेक्षसे॥८.
सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी । सत्यं चोक्तं परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः॥८.
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥८.
अथवा किं ममैतेन साम्ना प्रोक्तेन कारणम् । अनार्त्ये पापसङ्कल्पे क्रूरे चानृतवादिनि॥८.
त्वयि राज्ञि प्रभवति सद्भावः श्रूयतामयम् । अद्य मे दक्षिणां राजन् न दास्यति भवान् यदि॥८.
अस्ताचलं प्रयातेर्ऽके शप्स्यामि त्वां ततो ध्रुवम् । इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः॥८.
कान्दिग्भूतोऽधमो निः स्वो नृशंसधनिनार्दितः । भार्यास्य भूयः प्राहेदं क्रियतां वचनं मम॥८.
मा शापानलनिर्दग्धः पञ्चत्वमुपयास्यसि । स तथा चोद्यमानस्तु राजा पत्न्या पुनः पुनः॥८.