यद्वान्यत् कार्यमस्माभिस्तदनुज्ञातुमर्हसि॥८.
; विश्वामित्र उवाच पूर्णः स मासो राजर्षे दीयतां मम दक्षिणा । राजसूयनिमित्तं हि स्मर्यते स्ववचो यदि॥८.
; हरिश्चन्द्र उवाच ब्राह्मन्नद्यैव सम्पूर्णो मासोऽम्लानतपोधन । तिष्ठत्येतद् दनार्धं यत्तत् प्रतीक्षस्व माचिरम्॥८.
; विश्वामित्र उवाच एवमस्तु महाराज आगमिष्याम्यहं पुनः । शापं तव प्रदास्यामि न चेदद्य प्रदास्यसि॥८.
; पक्षिण ऊचुः इत्युक्त्वा प्रययौ विप्रो राजा चाचिन्तयत् तदा । कथमस्मै प्रदास्यामि दक्षिणा या प्रतिश्रुता॥८.
कुतः पुष्टानि मित्राणि कुतोर्ऽथः साम्प्रतं मम । प्रतिग्रहः प्रदुष्टो मे नाहं यायामधः कथम्॥८.
किमु प्राणान् विमुञ्चामि कां दिशं याम्यकिञ्चनः । यदि नाशं गमिष्यामि अप्रदाय प्रतिश्रुतम्॥८.
ब्रह्मस्वहृत्कृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेष्यतां यास्ये वरमेवात्मविक्रयः॥८.
; पक्षिण ऊचुः राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् । प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा॥८.
त्यज चिन्तां महारजा स्वसत्यमनुपालय । श्मशानवद् वर्जनीयो नरः सत्यबहिष्कृतः॥८.
नातः परतरं धर्मं वदन्ति पुरुषस्य तु । यादृशं पुरुषव्याघ्र स्वसत्यपरिपालनम्॥८.
अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः । भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम्॥८.
सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् । तारणायानृतं तद्वत् पातनायाकृतात्मनाम्॥८.
सप्ताश्वमेधानाहृत्य राजसूयं च पार्थिवः । कृतिर्नाम च्युतः स्वर्गादसत्यवचनात् सकृत्॥८.
राजन् जातमपत्यं मे इत्युक्त्वा प्ररुरोद ह । बाष्पाम्बुप्लुतनेत्रान्तामुवाचेदं महीपतिः॥८.
; हरिश्चन्द्र उवाच विमुञ्च भद्रे सन्तापमयं तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वा त्वं गजगामिनि॥८.
; पत्न्युवाच राजन् जातमपत्यं मे सतां पुत्रफलाः स्त्रियः । स मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम्॥८.
; पक्षिण ऊचुः एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य च संज्ञां स विललापातिदुः खितः॥८.
महद्दुः खमिदं भद्रे यत् त्वमेवं ब्रवीषि माम् । किं तव स्मितसंलापा मम पापस्य विस्मृताः॥८.
हा हा कथं त्वया शक्यं वक्तुमेतत् शुचिस्मिते । दुर्वाच्यमेतद्वचनं कर्तुं शक्नोम्यहं कथम्॥८.
इत्युक्त्वा स नरश्रेष्ठो धिग्धिगित्यसकृद् ब्रुवन् । निपपात महीपृष्ठे मूर्च्छयाभिपरिप्लुतः॥८.
शयानं भुवि तं दृष्ट्वा हरिश्चन्द्रं महीपतिम् । उवाचेदं सकरुणं राजपत्नी सुदुः खिता॥८.
; पत्न्युवाच हा महारजा कस्येदमपध्यानमुपस्थितम् । यत् त्वं निपतितो भूमौ राङ्कवास्तरणोचितः॥८.
येन कोट्यग्रगोवित्तं विप्राणामपवर्जितम् । स एष पृथिवीनाथो भूमौ स्वपिति मे पतिः॥८.
हा कष्टं किं तवानेन कृतं देव ! महीक्षिता । यदिन्द्रोपेन्द्रतुल्योऽयं नीतः प्रस्वापनीं दशाम्॥८.
इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह । भर्तृदुः खमहाभारेणासह्येन निपीडिता॥८.
तौ तथा पतितौ भूमावनाथौ पितरौ शिशुः । दृष्ट्वात्यन्तं क्षुधाविष्टः प्राह वाक्यं सुदुः खितः॥८.
तात तात ! ददस्वान्नमम्बाम्ब ! भोजनं दद । क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा॥८.
; पक्षिण ऊचुः एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः । दृष्ट्वा तु तं हरिश्चन्द्रं पतितं भुवि मूर्च्छितम्॥८.
स वारिणा समभ्युक्ष्य राजानमिदमब्रवीत् । उत्तिष्ठोतिष्ठ राजेन्द्र तां ददस्वेष्टदक्षिणाम्॥८.