सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता । मोहयैतौ दुराधर्षावसुरो मधुकैटभौ॥८१.
प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥८१.
ऋषिरुवाच एवं स्तुता तदा देवी तामसी तत्र वेधसा । विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ॥८१.
नेत्रास्यनासिका-बाहु-हृदयेभ्यस्तथोरसः । निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः॥८१.
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः । एकार्णवेऽहिशयनात्ततः स ददृशे च तौ॥८१.
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ । क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ॥८१.
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः । पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः॥८१.
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ । उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्॥८१.
भगवानुवाच भवनेतामद्य मे तुष्टौ मम वध्यावुभावपि । किमन्येन वरेणात्र एतावद्धि वृतं मम॥८१.
ऋषिरुवाच वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् । विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः॥८१.
आवां जहि न यत्रोर्वो सलिलेन परिप्लुता । प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः॥८१.
ऋषिरुवाच तथेत्युक्त्वा भगवता शङ्ख-चक्र-गदाभृता । कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः॥८१.
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् । प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते॥८१.
एकाशीतितमोऽध्यायः