ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् । यतो हि ज्ञानिनः सर्वे पशु-पक्षि-मृगादयः॥८१.
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगृपक्षिणाम् । मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः॥८१.
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु । कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा॥८१.
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति । लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि॥८१.
तथापि ममतावर्ते मोहगर्ते निपातिताः । महामायाप्रभावेण संसारस्थितिकारिणा॥८१.
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः । महामाया हरेश्चैतत्तथा संमोह्यते जगत्॥८१.
ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति॥८१.
तया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये॥८१.
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी॥८१.
राजोवाच भगवन् ! का हि सा देवी महामायेति यां भवान् । ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज॥८१.
यत्स्वभावा च सा देवी यत्स्वरूपा यदुद्भवा । तत् सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥८१.
ऋषिरुवाच नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् । तथापि तत्समुत्पत्तिर्बहुधा श्रुयतां मम॥८१.
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा । उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते॥८१.
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते । आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः॥८१.
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ॥८१.
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः । दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्॥८१.
तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः । विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्॥८१.
ब्रह्मोवाच विश्वेश्वरीं जगद्धात्रीं स्थिति-संहारकारिणीम् । निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥८१.
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥८१.
अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥८१.
त्वयैव धार्यते सर्वं त्वयैतत्सृज्यते जगत् । त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥८१.
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने । तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये॥८१.
महाविद्या महामाया महामेधा महास्मृतिः । महामोहा च भवती महादेवी महेश्वरी॥८१.
प्रकृतिस्त्वञ्च सर्वस्य गुणत्रयविभाविनी । कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥८१.
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा । लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च॥८१.
खडिगनी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाण-भुशुण्डी परिघायुधा॥८१.
सौम्या सौम्यतराशेष-सौम्येभ्यस्त्वतिसुन्दरी । परापराणां परमा त्वमेव परमेश्वरी॥८१.
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके । तस्य सर्वस्य या शिक्तिः सा त्वं किं स्तूयते तदा॥८१.
यया त्वया जगत्स्त्रष्टा जगत्पात्यत्ति यो जगत् । सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः॥८१.
विष्णुः शरीरग्रहणमहामीशान एव च । कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्॥८१.