स पृष्टस्तेन कस्त्वं भोः हेतुश्चागमनेऽत्र कः । सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे॥८१.
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् । प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥८१.
वैश्य उवाच समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले । पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः॥८१.
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् । वनमभ्यागतो दुः खी निरस्तश्चाप्तबन्धुभैः॥८१.
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् । प्रवृत्तिं स्वजनानाञ्च दाराणाञ्चात्र संस्थितः॥८१.
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् । कथं ते किं नु सद्वृत्ताः दुर्वृत्ताः किं नु मे सुताः॥८१.
राजोवाच यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः । तेषु किं भवतः स्नेहमनुबध्नाति मानसम्॥८१.
वैश्य उवाच एवमेतद्यथा प्राह भवानस्मद्गतं वचः । किं करोमि न बध्नाति मम निष्ठुरतां मनः॥८१.
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः । पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः॥८१.
किमेतन्नाभिजानामि जानन्नपि महामते । यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु॥८१.
तेषां कृते मे निः श्वासो दौर्मनस्यं च जायते । करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्॥८१.
मार्कण्डेय उवाच ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ । समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः॥८१.
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् । उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्य-पार्थिवौ॥८१.
राजोवाच भगवंस्त्वामहं प्रष्टुमिच्चाम्येकं वदस्व तत् । दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना॥८१.
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि । जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम॥८१.
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः । स्वजनेन च सन्त्यक्तस्तेषु हार्दे तथाप्यति॥८१.
एवमेष तथाहं च द्वावप्यत्यन्तदुः खितौ । दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ॥८१.
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि । ममास्य च भवत्येषा विवेकान्धस्य मूढता॥८१.
ऋषिरुवाच ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे । विषयश्च महाभाग याति चैवं पृथक् पृथक्॥८१.
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे । केचिद् दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः॥८१.
ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् । यतो हि ज्ञानिनः सर्वे पशु-पक्षि-मृगादयः॥८१.
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगृपक्षिणाम् । मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः॥८१.
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु । कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा॥८१.
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति । लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि॥८१.
तथापि ममतावर्ते मोहगर्ते निपातिताः । महामायाप्रभावेण संसारस्थितिकारिणा॥८१.
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः । महामाया हरेश्चैतत्तथा संमोह्यते जगत्॥८१.
ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति॥८१.
तया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये॥८१.
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी॥८१.
राजोवाच भगवन् ! का हि सा देवी महामायेति यां भवान् । ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज॥८१.