संज्ञां पृष्टस्तदा तस्मै कथयामास विश्वकृत् । आगतैवेह मे वेश्म भवतः प्रेषितेति वै ॥ ७७.
दिवाकरः समाधिस्थो वडवारूपधारिणीम् । तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ ॥ ७७.
सौम्यमूर्तिः शुभाकारो मम भर्ता भवेदिति । अभिसन्धिञ्च तपसो बुबुधेऽस्या दिवाकरः ॥ ७७.
शातनं तेजसो मेऽद्य क्रियतामिति भास्करः । तञ्चाह विश्वकर्माणं संज्ञायाः पितरं द्विज ॥ ७७.
संवत्सरभ्रमेस्तस्य विश्वकर्मा करवेस्ततः । तेजसः शातनञ्चक्रे स्तूयमानश्च दैवतैः ॥ ७७.
मार्कण्डेय उवाच सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद् गदतो मम॥८१.
महामायानुभावेन यथा मन्वन्तराधिपः । स बभूव महाभागः सावर्णिस्तनयो रवेः॥८१.
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः । सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले॥८१.
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् । बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा॥८१.
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥८१.
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् । आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः॥८१.
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः । कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः॥८१.
ततो मृगयाव्याजेन हृतस्वाम्यः स भुपतिः । एकाकी हयमारुह्य जगाम गहनं वनम्॥८१.
स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः । प्रशान्तश्वापदाकीर्णं मुनिश्ष्योपशोभितम्॥८१.
तस्थौ कञ्चित् स कालञ्च मुनिना तेन सत्कृतः । इतश्चैतश्च विचरंस्तस्मिन् मुनिवराश्रमे॥८१.
सोऽचिन्तयत् तदा तत्र ममत्वाकृष्टचेतनः । मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् । मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा॥८१.
न जाने स प्रधानो मे शूरहस्ती सदामदः । मम वैरिवशं यातः कान् भोगानुपलप्स्यते॥८१.
ये ममानुगता नित्यं प्रसादधनभोजनैः । अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्॥८१.
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् । संचितः सोऽतिदुः खेन क्षयं कोशो गमिष्यति॥८१.
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः । तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्श सः॥८१.
स पृष्टस्तेन कस्त्वं भोः हेतुश्चागमनेऽत्र कः । सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे॥८१.
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् । प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥८१.
वैश्य उवाच समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले । पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः॥८१.
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् । वनमभ्यागतो दुः खी निरस्तश्चाप्तबन्धुभैः॥८१.
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् । प्रवृत्तिं स्वजनानाञ्च दाराणाञ्चात्र संस्थितः॥८१.
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् । कथं ते किं नु सद्वृत्ताः दुर्वृत्ताः किं नु मे सुताः॥८१.
राजोवाच यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः । तेषु किं भवतः स्नेहमनुबध्नाति मानसम्॥८१.
वैश्य उवाच एवमेतद्यथा प्राह भवानस्मद्गतं वचः । किं करोमि न बध्नाति मम निष्ठुरतां मनः॥८१.
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः । पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः॥८१.
किमेतन्नाभिजानामि जानन्नपि महामते । यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु॥८१.