त्वान्तु मे पश्यतो वत्से दिनानि सुबहून्यपि । मुहूर्तार्धसमानि स्युः किन्तु धर्मो विलुप्यते ॥ ७७.
बान्धवेषु चिरं वासो नारीणां न यशस्करः । मनोरथो बान्धवानां नार्या भर्तृगृहे स्थितिः ॥ ७७.
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता । पितृगेहे चिरं कालं वस्तुं नार्हसि पुत्रिके ॥ ७७.
सा त्वं भर्तृगृहं गच्छ तुष्टोऽहं पूजितासि मे । पुनरागमनं कार्यं दर्शनाय शुभे मम ॥ ७७.
मार्कण्डेय उवाच इत्युक्ता सा तदा पित्रा तथेत्युक्त्वा च सा मुने । संपूजयित्वा पितरं जगामाथोत्तरान् कुरून् ॥ ७७.
सूर्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती । तपश्चचार तत्रापि वडवारूपधारिणी ॥ ७७.
संज्ञेयमिति मन्वानो द्वितीयायामहस्पतिः । जनयामास तनयौ कन्याञ्चैकां मनोरमाम् ॥ ७७.
छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला । तथा न संज्ञाकन्यायां पुत्रयोश्चान्ववर्तत ॥ ७७.
लालनाद्युपभोगेषु विशेषमनुवासरम् । मनुस्तत्क्षान्तवानस्य यमस्तस्या न चक्षमे ॥ ७७.
ताडनाय च वै कोपात्पादस्तेन समुद्यतः । तस्याः पुनः क्षान्तिमता न तु देहे निपातितः ॥ ७७.
ततः शशाप तं कोपाच्छायासंज्ञा यमं द्विज । किञ्चित्प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा ॥ ७७.
पितुः पत्नीममर्यादं यन्मां तर्जयसे पदा । भुवि तस्मादयं पदास्तवाद्यैव पतिष्यति ॥ ७७.
मार्कण्डेय उवाच इत्याकर्ण्य यमः शापं मात्रा दत्तं भयातुरः । अभ्येत्य पितरं प्राह प्रणिपातपुरः सरम् ॥ ७७.
यम उवाच तातैतन्महदाश्चर्यं न दृष्टमिति केनचित् । माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति ॥ ७७.
यथा मनुर्ममाचष्टे नेयं मता तथा मम । विगुणेष्वपि पुत्रेषु न माता विगुणा भवेत् ॥ ७७.
मार्कण्डेय उवाच यमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः । छायासंज्ञां समाहूय पप्रच्छ क्व गतेति सा ॥ ७७.
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो । पत्नी तव त्वयापत्यान्येतानि जनितानि मे ॥ ७७.
इत्थं विवस्वतः सा तु बहुशः पृच्छतो यदा । नाचचक्षे ततः क्रुद्धो भास्वांस्तां शप्तुमुद्यतः ॥ ७७.
ततः सा कथयामास यथावृत्तं विवस्वतः । विदितार्थश्च भगवान् जगाम त्वष्टुरालयम् ॥ ७७.
ततः स पूजयामास तदा त्रैलोक्यपूजितम् । भास्वन्तं परया भक्त्या निजगेहमुपागतम् ॥ ७७.
संज्ञां पृष्टस्तदा तस्मै कथयामास विश्वकृत् । आगतैवेह मे वेश्म भवतः प्रेषितेति वै ॥ ७७.
दिवाकरः समाधिस्थो वडवारूपधारिणीम् । तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ ॥ ७७.
सौम्यमूर्तिः शुभाकारो मम भर्ता भवेदिति । अभिसन्धिञ्च तपसो बुबुधेऽस्या दिवाकरः ॥ ७७.
शातनं तेजसो मेऽद्य क्रियतामिति भास्करः । तञ्चाह विश्वकर्माणं संज्ञायाः पितरं द्विज ॥ ७७.
संवत्सरभ्रमेस्तस्य विश्वकर्मा करवेस्ततः । तेजसः शातनञ्चक्रे स्तूयमानश्च दैवतैः ॥ ७७.
मार्कण्डेय उवाच सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद् गदतो मम॥८१.
महामायानुभावेन यथा मन्वन्तराधिपः । स बभूव महाभागः सावर्णिस्तनयो रवेः॥८१.
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः । सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले॥८१.
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् । बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा॥८१.
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥८१.