उपकारः कृतो वीर ! भवता यो ममाधुना । तेनास्म्याकृष्टहृदया यद्ब्रवीमि शृणुष्व तत् ॥ ७२.
तव पुत्रो महावीर्यो भविष्यति नराधिप । तस्माप्रतिहतं चक्रमस्यां भुवि भविष्यति ॥ ७२.
सर्वार्थशास्त्रतत्त्वज्ञो धर्मानुष्ठानतत्परः । मन्वन्तरेश्वरो धीमान् ! भविष्यति स वै मनुः ॥ ७२.
मार्कण्डेय उवाच इति दत्वा वरं तस्मै नागराजसुता ततः । सखीं तां संपरिष्वज्य पातालमगमन्मुने ॥ ७२.
तत्र तस्य तया सार्धं रमतः पृथिवीपतेः । जगाम कालः सुमहान् प्रजाः पालयतस्तथा ॥ ७२.
ततः स तस्यान्तनयो जज्ञे राज्ञो महात्मनः । पौर्णमास्यां यथा कान्तश्चन्द्रः संपूर्णमण्डलः ॥ ७२.
तस्मिन् जाते मुदं प्रापुः प्रजाः सर्वा महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ॥ ७२.
तस्य दृष्ट्वा वपुः कान्तं भविष्यं शीलमेव च । औत्तमश्चेति मुनयो नाम चक्रुः समागताः ॥ ७२.
जातोऽयमुत्तमे वंशे तत्र काले तथोत्तमे । उत्तमावयवस्तेन औत्तमोऽयं भविष्यति ॥ ७२.
मार्कण्डेय उवाच उत्तमस्य सुतः सोऽथ नाम्ना ख्यातस्तथौत्तमः । मनुरासीत्तत्प्रभावो भागुरे श्रूयतां मम ॥ ७२.
उत्तमाख्यानमखिलं जन्म चैवोत्तमस्य च । नित्यं शृणोति विद्वेषं स कदाचिन्न गच्छति ॥ ७२.
इष्टैर्दारैस्तथा पुत्रैर्बन्धुभिर्वा कदाचन । वियोगो नास्य भविता शृण्वतः पठतोऽपि वा ॥ ७२.
तस्य मन्वन्तरं ब्रह्मन् ! वदतो मे निशामय । श्रूयतां तत्र यश्चेन्द्रो ये च देवास्तथर्षयः ॥ ७२.
मार्तण्ड रस्यवेर्भार्या तनया विश्वकर्मणः । संज्ञा नाम महाभाग तस्यां भानुरजीजनत् ॥ ७७.
मनुं प्रख्यातयशसमनेकज्ञानपारगम् । विवस्वतः सुतो यस्मात्तस्माद्वैवस्वतस्तु सः ॥ ७७.
संज्ञा च रविणा दृष्टा निमीलयति लोचने । यतस्ततः सरोषोर्ऽकः संज्ञां निष्ठुरमब्रवीत् ॥ ७७.
मयि दृष्टे सदा यस्मात्कुरुषे नेत्रसंयमम् । तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् ॥ ७७.
मार्कण्डेय उवाच ततः सा चपलां दृष्टिं देवी चक्रे भयाकुला । विलोलितदृशं दृष्ट्वा पुनराह च तां रविः ॥ ७७.
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वयाधुना । तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि ॥ ७७.
मार्कण्डेय उवाच ततस्तस्यान्तु संजज्ञे भर्तृशापेन तेन वै । यमश्च यमुना चेयं प्रख्याता सुमहानदी ॥ ७७.
सापि संज्ञा रवेस्तेजः सेहे दुः खेन भामिनी । असहन्ती च सा तेजश्चिन्तयामास वै तदा ॥ ७७.
किङ्करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः । भवेन्मम कथं भर्ता कोपमर्कश्च नैष्यति ॥ ७७.
इति संचिन्त्य बहुधा प्रजापतिसुता तदा । बहु मेने महाभागा पितृसंश्रयमेव सा ॥ ७७.
ततः पितृगृहे गन्तुं कृतबुद्धिर्यशस्विनी । छायामयीमात्मतनुं निर्ममे दयितां रवेः ॥ ७७.
ताञ्चोवाच त्वया वेश्मन्यत्र भानोर्यथा मया । तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ ॥ ७७.
पृष्टयापि न वाच्यन्ते तथैतद्गमनं मम । सैवास्मि नाम संज्ञेति वाच्यमेतत्सदा वचः ॥ ७७.
छायसंज्ञोवाच आकेशग्रहणाद्देवि ! आशापाच्च वचस्तव । करिष्ये कथयिष्यामि वृत्तन्तु शापकर्षणात् ॥ ७७.
इत्युक्ता सा तदा देवी जगाम भवनं पितुः । ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम् ॥ ७७.
बहुमानाच्च तेनापि पूजिता विश्वकर्मणा । तस्थौ पितृगृहे सा तु कञ्चित्कालमनिन्दिता ॥ ७७.
ततस्तां प्राह चार्वङ्गी पिता नातिचिरोषिताम् । स्तुत्वा च तनयां प्रेमबहुमानपुरः सरम् ॥ ७७.