पत्न्युवाच यदि प्रिसादप्रवणं नरेन्द्र ! मयि ते मनः । तदेतदभियाचे त्वां तत्कुरुष्व ममार्हणम् ॥ ७२.
राजोवाच निः शङ्कं ब्रूहि मत्तो यद्भवात्या किञ्चिदीप्सितम् । तदलभ्यं न ते भीरु ! तवायत्तोऽस्मि नान्यथा ॥ ७२.
पत्न्युवाच मदर्थं तेन नागेन सुता शप्ता सखी मम । मूका भविष्यसीत्याह सा च मूकत्वमागता ॥ ७२.
तस्याः प्रतिक्रियां प्रीत्या मम शक्नोति चेद्भवान् । वाग्विघातप्रशान्त्यर्थं ततः किं न कृतं मम ॥ ७२.
मार्कण्डेय उवाच ततः स राजा तं विप्रमाहास्मिन् कीदृशी क्रिया । तन्मूकतापनोदाय स च तं प्राह पार्थिवम् ॥ ७२.
ब्राह्मण उवाच भूप ! सारस्वतीमिष्टिं करोमि वचनात्तव । पत्नी तवेयमानृण्यं यातु तद्वाक्प्रवर्तनात् ॥ ७२.
मार्कण्डेय उवाच इष्टिं सारस्वतीं चक्रे तदर्थं स द्विजोत्तमः । सारस्वतानि सूक्तानि जजाप च समाहितः ॥ ७२.
ततः प्रवृत्तवाक्यान्तां गर्गः प्राह रसातले । उपकारः सखीभर्त्रा कृतोऽयमतिदुष्करः ॥ ७२.
इत्थं ज्ञानं समासाद्य नन्दा शीघ्रगतिः पुरम् । ततो राज्ञीं परिष्वज्य स्वसखीमुरगात्मजा ॥ ७२.
तञ्च संस्तूय भूपालं कल्याणोक्त्या पुनः पुनः । उवाच मधुरं नागी कृतासनपरिग्रहा ॥ ७२.
उपकारः कृतो वीर ! भवता यो ममाधुना । तेनास्म्याकृष्टहृदया यद्ब्रवीमि शृणुष्व तत् ॥ ७२.
तव पुत्रो महावीर्यो भविष्यति नराधिप । तस्माप्रतिहतं चक्रमस्यां भुवि भविष्यति ॥ ७२.
सर्वार्थशास्त्रतत्त्वज्ञो धर्मानुष्ठानतत्परः । मन्वन्तरेश्वरो धीमान् ! भविष्यति स वै मनुः ॥ ७२.
मार्कण्डेय उवाच इति दत्वा वरं तस्मै नागराजसुता ततः । सखीं तां संपरिष्वज्य पातालमगमन्मुने ॥ ७२.
तत्र तस्य तया सार्धं रमतः पृथिवीपतेः । जगाम कालः सुमहान् प्रजाः पालयतस्तथा ॥ ७२.
ततः स तस्यान्तनयो जज्ञे राज्ञो महात्मनः । पौर्णमास्यां यथा कान्तश्चन्द्रः संपूर्णमण्डलः ॥ ७२.
तस्मिन् जाते मुदं प्रापुः प्रजाः सर्वा महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ॥ ७२.
तस्य दृष्ट्वा वपुः कान्तं भविष्यं शीलमेव च । औत्तमश्चेति मुनयो नाम चक्रुः समागताः ॥ ७२.
जातोऽयमुत्तमे वंशे तत्र काले तथोत्तमे । उत्तमावयवस्तेन औत्तमोऽयं भविष्यति ॥ ७२.
मार्कण्डेय उवाच उत्तमस्य सुतः सोऽथ नाम्ना ख्यातस्तथौत्तमः । मनुरासीत्तत्प्रभावो भागुरे श्रूयतां मम ॥ ७२.
उत्तमाख्यानमखिलं जन्म चैवोत्तमस्य च । नित्यं शृणोति विद्वेषं स कदाचिन्न गच्छति ॥ ७२.
इष्टैर्दारैस्तथा पुत्रैर्बन्धुभिर्वा कदाचन । वियोगो नास्य भविता शृण्वतः पठतोऽपि वा ॥ ७२.
तस्य मन्वन्तरं ब्रह्मन् ! वदतो मे निशामय । श्रूयतां तत्र यश्चेन्द्रो ये च देवास्तथर्षयः ॥ ७२.
मार्तण्ड रस्यवेर्भार्या तनया विश्वकर्मणः । संज्ञा नाम महाभाग तस्यां भानुरजीजनत् ॥ ७७.
मनुं प्रख्यातयशसमनेकज्ञानपारगम् । विवस्वतः सुतो यस्मात्तस्माद्वैवस्वतस्तु सः ॥ ७७.
संज्ञा च रविणा दृष्टा निमीलयति लोचने । यतस्ततः सरोषोर्ऽकः संज्ञां निष्ठुरमब्रवीत् ॥ ७७.
मयि दृष्टे सदा यस्मात्कुरुषे नेत्रसंयमम् । तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् ॥ ७७.
मार्कण्डेय उवाच ततः सा चपलां दृष्टिं देवी चक्रे भयाकुला । विलोलितदृशं दृष्ट्वा पुनराह च तां रविः ॥ ७७.
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वयाधुना । तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि ॥ ७७.
मार्कण्डेय उवाच ततस्तस्यान्तु संजज्ञे भर्तृशापेन तेन वै । यमश्च यमुना चेयं प्रख्याता सुमहानदी ॥ ७७.