तेषां करोति वै नन्दः परलोके न चादृतः । भवत्यस्य न च स्नेहः सहवासिषु जायते ।। 68.
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च । तथैव सत्त्वरजसी यो बिभर्ति महानिधिः ।। 68.
स नीलसंज्ञस्तत्सङ्गी नरस्तच्छीलवान् भवेत् । वस्त्र-कार्पास-धान्यादि-फल-पुष्पपरिग्रहम् ।। 68.
मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां तथा मुने । काष्ठादीनां करोत्येष यच्चान्यज्जलसम्भवम् ।। 68.
क्रयविक्रयमन्येषां नान्यत्र रमते मनः । तडागान् पुष्करिण्योऽथ तथाऽऽरामान् करोति च ।। 68.
बन्धञ्च सरितां वृक्षांस्तथारोपयते नरः । अनुलेपनपुष्पादिभोगं भुक्त्वाभिजायते ।। 68.
त्रिपौरुषश्चापि निधिर्नोलो नामैष जायते । रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः ।। 68.
तेनापि नीयते विप्र ! तद््गुणित्वं निधी•ारः । एकस्यैव भवत्येष नरं नान्यमुपैति च ।। 68.
यस्य शङ्खो निधिस्तस्य स्वरूपं क्रौष्टुके ! श्रृणु । एक एवात्मना मिष्टमन्नं भुङ््क्ते तथाम्बरम् ।। 68.
कदन्नभुक्् परिजनो न च शोभनवस्त्रधृक् । न ददाति सुह्मद््भाय्र्याभ्रातृपुत्रस्नुषादिषु ।। 68.44 स्वपोषणपरः शङ्खी नरो भवति सर्वदा । इत्येते निधयः ख्याता नराणामर्थदेवताः ।। 68.
मिश्रावलोकनान्मिश्राः स्वभावफलदायिनः । यथाख्यातस्वभावस्तु भवत्येव विलोकनात् 68.
द्विसप्ततितमोऽध्यायः ७२ मार्कण्डेय उवाच ततः स्वनगरं प्राप्य तं ददर्श द्विजं नृपः । समेतं भार्यया चैव शीलवत्या मुदान्वितम् ॥ ७२.
ब्राह्मण उवाच राजवर्य ! कृतार्थोऽस्मि यतो धर्मो हि रक्षितः । धर्मज्ञनेह भवता भार्यामानयता मम ॥ ७२.
राजोवाच कृतार्थस्त्वं द्विजश्रेष्ठ ! निजधर्मानुपालनात् । वयं सङ्कटिनो विप्र ! येषां पत्नी न वेश्मनि ॥ ७२.
ब्राह्मण उवाच नरेन्द्र ! सा हि विपिने भक्षिता श्वनापदैर्यदि । अलन्तया किमन्यस्या न पाणिर्गृह्यते त्वया । क्रोधस्य वशमागम्य धर्मो न रक्षितस्त्वया ॥ ७२.
राजोवाच न भक्षिता मे दयिता श्वापदैः सा हि जीवति । अविदूषितचारित्रा कथमेतत्करोम्यहम् ॥ ७२.
ब्राह्मण उवाच यदि जीवति ते भार्या न चैव व्यभिचारिणी । तदपत्नीकताजन्म किं पापं क्रियते त्वया ॥ ७२.
राजोवाच आनीतापि हि सा विप्र ! प्रतिकूला सदैव मे । दुः खाय न सुखायालं तस्या मैत्री न वै मयि । तथा त्वं कुरु यत्नं मे यथा सा वशगामिनी ॥ ७२.
ब्राह्मण उवाच तव संप्रीतये तस्या वरेष्टिरुपकारिणी । क्रियते मित्रकामैर्या मित्रविन्दां करोमि ताम् ॥ ७२.
अप्रीतयोः प्रीतिकरो सा हि संजननी परम् । भार्यापत्योर्मनुष्येन्द्र ! तान्तवेष्टिं करोम्यहम् ॥ ७२.
यत्र तिष्ठति सा सुभ्रूस्तव भार्या महीपते । तस्मादानोयतां सा ते परां प्रीतिमुपैष्यति ॥ ७२.
मार्कण्डेय उवाच इत्युक्तः स तु सम्भारानशेषानवनीपतिः । आनिनाय चकारेष्टिं स च तां द्विजसत्तमः ॥ ७२.
सप्तकृत्वः स तु तदा चकारेष्टिं पुनः पुनः । तस्य राज्ञो द्विजश्रेष्ठो भार्यासम्पादनाय वै ॥ ७२.
यदारोपितमैत्रीन्ताममन्यत महामुनिः । स्वभर्तरि तदा विप्रस्तमुवाच नराधिपम् ॥ ७२.
आनीयतां नरश्रेष्ठ ! या तवेष्टात्मनोऽन्तिकम् । भुङ्क्ष्व भोगांस्तया सार्धं यज यज्ञांस्तथादृतः ॥ ७२.
मार्कण्डेय उवाच इत्युक्तस्तेन विप्रेण भूपालो विस्मितस्तदा । सस्मार तं महावीर्यं सत्यसन्धं निशाचरम् ॥ ७२.
स्मृतस्तेन तदा सद्यः समुपेत्य नराधिपम् । किं करोमीति सोऽप्याह प्रणिपत्य महामुने ॥ ७२.
ततस्तेन नरेन्द्रेण विस्तरेण निवेदिते । गत्वा पातालमादाय राजपत्नीमुपाययौ ॥ ७२.
आनीता चातिहार्देन सा ददर्श तदा पतिम् । उवाच च प्रसीदेति भूयोभूयो मुदान्विता ॥ ७२.
ततः स राजा रभसा परिष्वज्याह मानिनीम् । प्रिये ! प्रसन्न एवाहं भूयोऽप्येवं ब्रवीषि किम् ॥ ७२.