यत्र पद्ममहापद्मौ तथा मकरकच्छपौ । मुकुन्दो नन्दकश्चैव नीलः शङ्खोऽष्टमो निधिः ।। 68.
सत्यामृद्धौ भवन्त्येते सिद्धिस्तेषां हि जायते । एते ह्रष्टौ समाख्याता निधयस्तव क्रौष्टुके ।। 68.
देवातानां प्रसादेन साधुसंसेवनेन च । एभिरालोकितं वित्तं मानुषस्य सदा मुने ।। 68.
यादृक्् स्वरूपं भवति तन्मे निगदतः श्रृणु । पद्मो नाम निधिः पूर्वं स यस्य भवति द्विज ।। 68.
सुतस्य तत्सुतानाञ्च तत्पैत्राणाञ्च नित्यशः । दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत् ।। 68.
सत्त्वाधारो महाभोगो यतोऽसौ सात्त्विको निधिः । सुवर्णरूप्यताम्रादिधातूनाञ्च परिग्रहम् ।। 68.
करोत्यतितरां सोऽथ तेषाञ्च क्रयाविक्रयम् । करोति च तथा यज्ञान् दक्षिणाञ्च प्रयच्छति ।। 68.
सभां देवनिकेतांश्च स कारयति तन्मनाः । सत्त्वाधारो निधिश्चान्यो महापद्म इति श्रुतः ।। 68.
सत्त्वप्रधानो भवति तेन चाधिष्ठितो नरः । करोति पद्मरागादिरत्नानाञ्च परिग्रहम् ।। 68.
मौक्तिकानां प्रवालानां तेषां च क्रयविक्रयान् । ददाति योगशीलेभ्यस्तेषामावसथांस्तथा ।। 68.
स कारयति तच्छीलः स्वयमेव च जायते । तत्प्रसूतास्तथाशीलाः पुत्रपौत्रक्रमेण च ।। 68.
पूर्वर्द्धिमात्रः सप्तासौ पुरुषांश्च न मुञ्चति । तामसो मकरो नाम निधिस्तेनावलोकितः ।। 68.
पुरुषोऽथ तमः प्रायः सुशीलोऽपि हि जायते । बाण-खड््गÐष्ट-धनुषां चम्र्मणाञ्च परिग्रहम् ।। 68.
दंशनानाञ्च कुरुते याति मैत्रीञ्च राजभिः । ददाति शौय्र्यवृत्तीनां भूभुजांये च तत्प्रियाः ।। 68.
क्रयविक्रये च शस्त्राणां नान्यत्र प्रीतिमेति च । एकस्यैव भवत्येष नरस्य न सुतानुगः ।। 68.
द्रव्यार्थं दस्युतो नाशं संग्रामे चापि स व्रजेत् । कच्छपश्च निधिर्योऽसौ नरस्तेनाभिवीक्षितः ।। 68.
तमः प्रधानो भवति यतोऽसौ तामसो निधिः । व्यवहारानशेषांस्तु पुण्यजातैः करोति च ।। 68.
कर्मस्थानखिलांश्चैवन वि•ासिति कस्यचित् । समस्तानि यथाङ्गानि संहरत्येव कच्छपः ।। 68.
तथा विष्टभ्य चित्तानि तिष्ठत्यायतमानसः । न ददाति न वा भुङ््क्ते तद्विनाशभयाकुलः ।। 68.
निधानमुर्व्व्यां कुरुते निधिः सोऽप्येकपूरुषः । रजोगुणमयश्चान्यो मुकुन्दो नाम यो निधिः ।। 68.
नरोऽवलोकितस्तेन तद््गुणो भवति द्विज । वीणावेणुमृदङ्गानामातोद्यस्य परिग्रहम् ।। 68.
करोति गायतां वतिं्त नृत्यताञ्च प्रयच्छति । वन्दिनामथ सूतानां विटानां लास्यापाठिनाम् ।। 68.
ददात्यहर्निशं भोगान् भुङ््क्ते तैश्च समं द्विज । कुलटासुरतिश्चास्य भवत्यन्यैश्च तद्विधैः ।। 68.
प्रयाति सङ्गमेकञ्च यं निधिर्भजते नरम् । रजस्तमोमयश्चान्यो नन्दो नाम महानिधिः ।। 68.
उपैति स्तम्भमधिकं नरस्तेनावलोकितः । समस्तधातुरत्नानां पुण्यधान्यादिकस्य च ।। 68.
परिग्रहं करोत्येष तथैव क्रयविक्रयम् । आधारः स्वजनानाञ्च आगताभ्यागतस्य च ।। 68.
सहते नापमानोकिं्त स्वल्पामपि महामुने । स्तूयमानश्च महतीं प्रीतिं बध्नाति यच्छति ।। 68.
यं यमिच्छति वै कामं मृदुत्वमुपयाति च । बह्व्यो भाय्र्या भवन्त्यस्य सूतिमत्योऽतिशोभनाः ।। 68.
रतये सप्त च नरान्निधिर्नन्दोऽनुवर्तते । प्रवद्र्धमानोऽथ नरमष्टभागेन सत्तम ।। 68.
दीर्घायुष्ट्वञ्च सर्वेषां पुरुषाणां प्रयच्छति । बन्धूनामेव भरणं ये च दूरादुपागताः ।। 68.