अनुप्रविश्य सा जातमपहृत्यात्मसम्भवम् । क्षणप्रसविनी बालं तत्रैवोत्सृजते द्विज॥५१.
सा जातहारिणी नाम सुघोरा पिशिताशना । तस्मात् संरक्षणं कार्यं यत्नतः सूतिकागृहे॥५१.
स्मृतिञ्चाप्रयतानाञ्च शून्यागारनिषेवणात् । अपहन्ति सुतस्तस्याः प्रचण्डो नाम नामतः॥५१.
पौत्रेभ्यस्तस्य संभूता लीकाः शतसहस्रशः । चण्डालयोनयश्चाष्टौ दण्डपाशातिभीषणाः॥५१.
क्षुधाविष्टास्ततो लीकास्ताश्च चण्डालयोनयः । अभ्यधावन्त चान्योन्यमत्तुकामाः परस्परम्॥५१.
प्रचण्डो वारियित्वा तु तास्ताश्चण्डालयोनयः । समये स्थापयामास यादृशे तादृशं शृणु॥५१.
अद्यप्रभृति लीकानामावासं यो हि दास्यति । दण्डं तस्याहमतुलं पातयिष्ये न संशयः॥५१.
चण्डालयोन्योऽवसथे लीका या प्रसविष्यति । तस्याश्च सन्तिः पूर्वा सा च सद्यो नशिष्यति॥५१.
प्रसूते कन्यके द्वे तु स्त्रीपुंसोर्बोजहारिणी । वातरूपामरूपाञ्च तस्याः प्रहरणन्तु ते॥५१.
वातरूपा निषेकान्ते सा यस्मै क्षिपते सुतम् । स पुमान् वातशुक्रत्वं प्रयाति वनितापि वा॥५१.
तथैव गच्छतः सद्यो निर्बोजत्वमरूपया । अस्नाताशी नरो यो वै तथैव पिशिताशनः॥५१.
विद्वेषिणी तु या कन्या भृकुटीकुटिलानना । तस्या द्वौ तनयौ पुंसामपकारप्रकाशकौ॥५१.
निर्बोजत्वं नरो याति नारी वा शौचवर्जिता । पैशुन्याभिरतं लोलमसज्जननिषेवणम्॥५१.
पुरुषद्वेषिणञ्चैतौ नारमाक्रम्य तिष्ठतः । मात्रा भ्रात्रा तथा मित्रैरभीष्टैः स्वजनैः परैः॥५१.
विद्विष्टो नाशमायाति पुरुषो धर्मतोर्ऽथतः । एकस्तु स्वगुणांल्लोके प्रकाशयति पापकृत्॥५१.
द्वितीयस्तु गुणान् मैत्रीं लोकस्थामपकर्षति । इत्येते दौः सहाः सर्वे यक्ष्मणः सन्ततावथ । पापाचाराः समाख्याता यैर्व्याप्तमखिलं जगत्॥५१.
क्रौष्टुकिरुवाच--- भगवन् !कथितं सर्वं विस्तरेण त्वया मम । स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य तु ।। 68.
या तु सा पद्मिनी नाम विद्या भोगोपपादिका । तत्संश्रयां ये निधयस्तान् मे विस्तरतो वद ।। 68.
अष्टौ ये निधयस्तेषां स्वरूपं द्रव्यसंस्थितिः । भवताभिहितं सम्यक् श्रोतुमिच्छाम्यहं गुरो ।। 68.
मार्कण्डेय उवाच--- पद्मिनी नाम या विद्या लक्ष्मीस्तस्याश्च देवता । तदाधाराश्च निधयस्तन्मे निगदतः श्रृणु ।। 68.
यत्र पद्ममहापद्मौ तथा मकरकच्छपौ । मुकुन्दो नन्दकश्चैव नीलः शङ्खोऽष्टमो निधिः ।। 68.
सत्यामृद्धौ भवन्त्येते सिद्धिस्तेषां हि जायते । एते ह्रष्टौ समाख्याता निधयस्तव क्रौष्टुके ।। 68.
देवातानां प्रसादेन साधुसंसेवनेन च । एभिरालोकितं वित्तं मानुषस्य सदा मुने ।। 68.
यादृक्् स्वरूपं भवति तन्मे निगदतः श्रृणु । पद्मो नाम निधिः पूर्वं स यस्य भवति द्विज ।। 68.
सुतस्य तत्सुतानाञ्च तत्पैत्राणाञ्च नित्यशः । दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत् ।। 68.
सत्त्वाधारो महाभोगो यतोऽसौ सात्त्विको निधिः । सुवर्णरूप्यताम्रादिधातूनाञ्च परिग्रहम् ।। 68.
करोत्यतितरां सोऽथ तेषाञ्च क्रयाविक्रयम् । करोति च तथा यज्ञान् दक्षिणाञ्च प्रयच्छति ।। 68.
सभां देवनिकेतांश्च स कारयति तन्मनाः । सत्त्वाधारो निधिश्चान्यो महापद्म इति श्रुतः ।। 68.
सत्त्वप्रधानो भवति तेन चाधिष्ठितो नरः । करोति पद्मरागादिरत्नानाञ्च परिग्रहम् ।। 68.
मौक्तिकानां प्रवालानां तेषां च क्रयविक्रयान् । ददाति योगशीलेभ्यस्तेषामावसथांस्तथा ।। 68.