अनर्थञ्चार्थरूपेण मोक्षञ्चामोक्षरूपिणम् । दुर्विनीता विना शौचं दर्शयन्ति पृथङ्नरान्॥५१.
भ्रश्यन्त्याभिः प्रविष्टाभिः पुरुषार्थात् पृथङ्नराः । तासां प्रवेशश्च गृहे संध्यारक्ते ह्यथाम्बरे॥५१.
धाताविधात्रोश्च बलिर्यत्र काले न दीयते । भुञ्जतां पिबतां वापि सङ्गिभिर्जलविप्रुषैः॥५१.
नवनारीषु संक्रान्तिस्तासामाश्वभिजायते । विरोधिन्यास्त्रयः पुत्राश्चोदको ग्राहकस्तथा॥५१.
तमः प्रच्छादकश्चान्यस्तत्स्वरूपं शृणुष्व मे । प्रदीपदैलसंसर्गदूषिते लङ्घिते खले॥५१.
मुषलोलूखले यत्र पादुके वासने स्त्रियः । शूर्पदात्रादिकं यत्र पदाकृष्य तथासनम्॥५१.
यत्रोपलिप्तञ्चानर्च्य विहारः क्रियते गृहे। दर्वोमुखेन यत्राग्निराहृतोऽन्यत्र नीयते॥५१.
विरोधिनीसुतास्तत्र विजृम्भन्ते प्रचोदिताः । एको जिह्वागतः पुंसां स्त्रीणाञ्चालीकसत्यवान्॥५१.
चोदको नाम स प्रोक्तः पैशुन्यं कुरुते गृहे । अवधानगतश्चान्यः श्रवणस्थोऽतिदुर्मतिः॥५१.
करोति ग्रहणन्तेषां वचसां ग्राहकस्तु सः । आक्रम्यान्यो मनो नॄणां तमसाच्छाद्य दुर्मतिः॥५१.
क्रोधं जनयते यस्तु तमः प्रच्छादकस्तु सः । स्वयंहार्यास्तु चौर्येण जनितन्तनयत्रयम्॥५१.
सर्वहार्यर्धहारी च वीर्यहारी तथैव च । अनाचान्तगृहेष्वेते मन्दाचारगृहेषु च॥५१.
अप्रक्षालितपादेषु प्रविशत्सु महानसम् । खलेषु गोष्ठेषु च वै द्रोहो येषु गृहेषु वै॥५१.
तेषु सर्वे यथान्यायं विहरन्ति रमन्ति च । भ्रामण्यास्तनयस्त्वेकः काकजङ्घ इति स्मृतः॥५१.
तेनाविष्टो रतिं सर्वो नैव प्राप्नोति वै पुरे । भुञ्जन् यो गायते मैत्रे गायते हसते च यः॥५१.
सन्ध्यामैथुनिनञ्चैव नरमाविशति द्विज । कन्यात्रयं प्रसूता सा या कन्या ऋतुहारिणी॥५१.
एका कुचहरा कन्या अन्या व्यञ्जनहारिका । तृतीया तु समाख्याता कन्यका जातहारिणी॥५१.
यस्या न क्रियते सर्वः सम्यग् वैवाहिको विधिः । कालातीतोऽथवा तस्या हरत्येका कुचद्वयम्॥५१.
सम्यक् श्राद्धमदत्त्वा च तथानर्च्य च मातरम् । विवाहितायाः कन्याया हरति व्यञ्जनं तथा॥५१.
अग्न्यम्बुशून्ये च तथा विधूपे सूतिकागृहे । अदीपशस्त्रमुसले भूतिसर्षपवर्जिते॥५१.
अनुप्रविश्य सा जातमपहृत्यात्मसम्भवम् । क्षणप्रसविनी बालं तत्रैवोत्सृजते द्विज॥५१.
सा जातहारिणी नाम सुघोरा पिशिताशना । तस्मात् संरक्षणं कार्यं यत्नतः सूतिकागृहे॥५१.
स्मृतिञ्चाप्रयतानाञ्च शून्यागारनिषेवणात् । अपहन्ति सुतस्तस्याः प्रचण्डो नाम नामतः॥५१.
पौत्रेभ्यस्तस्य संभूता लीकाः शतसहस्रशः । चण्डालयोनयश्चाष्टौ दण्डपाशातिभीषणाः॥५१.
क्षुधाविष्टास्ततो लीकास्ताश्च चण्डालयोनयः । अभ्यधावन्त चान्योन्यमत्तुकामाः परस्परम्॥५१.
प्रचण्डो वारियित्वा तु तास्ताश्चण्डालयोनयः । समये स्थापयामास यादृशे तादृशं शृणु॥५१.
अद्यप्रभृति लीकानामावासं यो हि दास्यति । दण्डं तस्याहमतुलं पातयिष्ये न संशयः॥५१.
चण्डालयोन्योऽवसथे लीका या प्रसविष्यति । तस्याश्च सन्तिः पूर्वा सा च सद्यो नशिष्यति॥५१.
प्रसूते कन्यके द्वे तु स्त्रीपुंसोर्बोजहारिणी । वातरूपामरूपाञ्च तस्याः प्रहरणन्तु ते॥५१.
वातरूपा निषेकान्ते सा यस्मै क्षिपते सुतम् । स पुमान् वातशुक्रत्वं प्रयाति वनितापि वा॥५१.