सोऽस्थिमज्जागतः पुंसां बलमत्त्यजितात्मनाम् । श्येन-काक-कपोतांश्च गृध्रोलूकैश्च वै सुतान्॥५१.
अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः । श्येनं जग्राह मृत्युश्च काकं कालो गृहीतवान्॥५१.
उलूकं निरृतिश्चैव जग्राहातिभयावहम् । गृध्रं व्याधिस्तदीशोऽथ कपोतं च स्वयं यमः॥५१.
एतेषामेव चैवोक्ता भूताः पापोपपादने । तस्माच्छ्येनादयो यस्य निलीयेयुः शिरस्यथ॥५१.
तेनात्मरक्षणायालं शान्तिं कुर्याद्विजोत्तम । गेहे प्रसूतिरेतेषां तद्वन्नीडनिवेशनम्॥५१.
नरस्तं वर्जयेद् गेहं कपोताक्रान्तमस्तकम् । श्येनः कपोतो गृध्रश्च काकोलूकौ गृहे द्विज॥५१.
प्रविष्टः कथयेदन्तं वसतां तत्र वेश्मनि । ईदृक् परित्यजेद् गेहं शान्तिं कुर्याच्च पण्डितः॥५१.
स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते । षडपत्यानि कथ्यन्ते गण्डप्रान्तरतेस्तथा॥५१.
स्त्रीणां रजस्यवस्थानं तेषां कालांश्च मे शृणु । चत्वार्यहानि पूर्वाणि तथैवान्यत् त्रयोदश॥५१.
एकादश तथैवान्यदपत्यं तस्य वै दिने । अन्यद्दिनाभिगमने श्राद्धदाने तथापरे॥५१.
पर्वस्वथान्यत् तस्मात्तु वर्ज्यान्येतानि पण्डितैः । गर्भहन्तुः सुतो निघ्नो मोहनी चापि कन्यका॥५१.
प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा । जायन्ते मोहनात्तस्याः सर्पमण्डूककच्छपाः॥५१.
सरीसृपाणि चान्यानि पुरीषमथवा पुनः । षण्मासान् गुर्विणीं मांसमश्नुवानामसंयताम्॥५१.
वृक्षच्छायाश्रयां रात्रावथवा त्रिचतुष्पथे । श्मशानकटभूमिष्ठामुत्तरीयविवर्जिताम्॥५१.
रुदमानां निशीथेऽथ आविशेत्तामसौ स्त्रियम् । शस्यहन्तुस्तथैवैकः क्षुद्रको नाम नामतः॥५१.
शस्यर्धिं स सदा हन्ति लब्ध्वा रन्ध्रं शृणुष्व तत् । अमङ्गल्यदिनारम्भे अतृप्तो वपते च यः॥५१.
क्षेत्रेष्वनुप्रवेशं वै करोत्यन्तोपसङ्गिषु । तस्मात् कल्पः सुप्रशस्ते दिनेऽभ्यर्च्य निशाकरम्॥५१.
कुर्यादारम्भमुप्तिञ्च हृष्टस्तुष्टः सहायवान् । नियोजिकेति या कन्या दुः सहस्य मयोदिता॥५१.
जातं प्रचोदिकासंज्ञं तस्याः कन्याचतुष्टयम् । मत्तोन्मत्तप्रमत्तास्तु नरान् नारीस्तु ताः सदा॥५१.
समाविशन्ति नाशाय चोदयन्तीह दारुणम् । अधर्मं धर्मरूपेण कामञ्चाकामरूपिणम्॥५१.
अनर्थञ्चार्थरूपेण मोक्षञ्चामोक्षरूपिणम् । दुर्विनीता विना शौचं दर्शयन्ति पृथङ्नरान्॥५१.
भ्रश्यन्त्याभिः प्रविष्टाभिः पुरुषार्थात् पृथङ्नराः । तासां प्रवेशश्च गृहे संध्यारक्ते ह्यथाम्बरे॥५१.
धाताविधात्रोश्च बलिर्यत्र काले न दीयते । भुञ्जतां पिबतां वापि सङ्गिभिर्जलविप्रुषैः॥५१.
नवनारीषु संक्रान्तिस्तासामाश्वभिजायते । विरोधिन्यास्त्रयः पुत्राश्चोदको ग्राहकस्तथा॥५१.
तमः प्रच्छादकश्चान्यस्तत्स्वरूपं शृणुष्व मे । प्रदीपदैलसंसर्गदूषिते लङ्घिते खले॥५१.
मुषलोलूखले यत्र पादुके वासने स्त्रियः । शूर्पदात्रादिकं यत्र पदाकृष्य तथासनम्॥५१.
यत्रोपलिप्तञ्चानर्च्य विहारः क्रियते गृहे। दर्वोमुखेन यत्राग्निराहृतोऽन्यत्र नीयते॥५१.
विरोधिनीसुतास्तत्र विजृम्भन्ते प्रचोदिताः । एको जिह्वागतः पुंसां स्त्रीणाञ्चालीकसत्यवान्॥५१.
चोदको नाम स प्रोक्तः पैशुन्यं कुरुते गृहे । अवधानगतश्चान्यः श्रवणस्थोऽतिदुर्मतिः॥५१.
करोति ग्रहणन्तेषां वचसां ग्राहकस्तु सः । आक्रम्यान्यो मनो नॄणां तमसाच्छाद्य दुर्मतिः॥५१.