हानाथ किं जहास्यस्मान् नित्यार्तिपरिपीडितान् । त्वं धर्मतत्परो राजन् पौरानुग्रहकृत् तथा॥७.
नयास्मानपि राजर्षे यदि धर्ममवेक्षसे । मुहूर्तं तिष्ठ राजेन्द्र भवतो मुखपङ्कजम्॥७.
पिबामो नेत्रभ्रमरैः कदा द्रक्ष्यामहे पुनः । यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः॥७.
तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् । यस्य भृत्याः प्रयातस्य यान्तयग्रे कुञ्जचरस्थिताः॥७.
स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽद्य गच्छति । हा राजन् सुकुमारं ते सुभ्रु सुत्वचमुन्नसम्॥७.
पथि पांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति । तिष्ठ तिष्ठ नृपश्रेष्ठ स्वधर्ममनुपालय॥७.
आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः । किं दारैः किं सुतैर्नाथ धनैर्धान्यैरथापि वा॥७.
सर्वमेतत् परित्यज्य छायाभूता वयं तव । हानाथ हा महाराज हा स्वामिन् किं जहासि नः॥७.
यत्र त्वं तत्र हि वयं तत् सुखं यत्र वै भवान् । नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः॥७.
इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः । अतिष्ठत् स तदा मार्गे तेषामेवानुकम्पया॥७.
विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् । रोषमर्षविवृत्ताक्षः समागम्य वचोऽब्रवीत्॥७.
धिक् त्वां दुष्टसमाचारमनृतं जिह्मभाषणम् । मम राज्यं च दत्वा यः पुनः प्राक्रष्टुमिच्छसि॥७.
इत्युक्तः परुषं तेन गच्छामीति सवेपथुः । ब्रुवन्नेवं ययौ शीघ्रमाकर्षन् दयितां करे॥७.
कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् । सहसा दण्डकाष्ठेन ताडयामास कौशिकः॥७.
तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः । गच्छामीत्याह दुः खार्तो नान्यत् किञ्चिदुदाहरत्॥७.
अथ विश्वे तदा देवाः पञ्च प्राहुः कृपालवः । विश्वामित्रः सुपापोऽयं लोकान् कान् समवाप्स्यति॥७.
येनायां यज्वनां श्रेष्ठः स्वराज्यादवरोपितः । कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे । पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरः सरम्॥७.
; पक्षिण ऊचुः इति तेषां वचः श्रुत्वा कौशिकोऽतिरुषान्वितः । शशाप तान् मनुष्यत्वं सर्वे यूयमवाप्स्यथ॥७.
प्रसादितश्च तैः प्राह पुनरेव महामुनिः. मानुषत्वेऽपि भवतां भवित्री नैव सन्ततिः॥७.
न दारसंग्रहश्चैव भविता न च मत्सरः । कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः॥७.
ततोऽवतेरुरंशैः स्वैर्देवास्ते कुरुवेश्मनि । द्रौपदीगर्भसम्भूताः पञ्च वै पाण्डुनन्दनाः॥७.
एतस्मात् कारणात् पञ्च पाण्डवेया महारथाः । न दारसंग्रहं प्राप्ताः शापात् तस्य महामुनेः॥७.
एतत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयम् । प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि॥७.
जैमिनिरुवाच भवद्भिरिदमाख्यातं यथाप्रश्नमनुक्रमात् । महत् कौतूहलं मेऽस्ति हरिश्चन्द्र कथां प्रति॥८.
अहो महात्मना तेन प्राप्तं कृच्छ्रमनुत्तमम् । कच्चित् सुखमनुप्राप्तं तादृगेव द्विजोत्तमाः॥८.
; पक्षिण ऊचुः विश्वामित्रवचः श्रुत्वा स राजा प्रययौ शनैः । शैव्ययानुगतो दुः खी भार्यया बलापुत्रया॥८.
स गत्वा वसुधापालो दिव्यां वाराणसीं पुरीम् । नैषा मनुष्यभोग्येति शूलपाणेः परिग्रहः॥८.
जगाम पद्भ्यां दुः खार्तः सह पत्न्यानुकूलया । पुरीप्रवेशे ददृशे विश्वामित्रमुपस्थितम्॥८.
तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् । प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम्॥८.
इमे प्राणाः सुतश्चायमियं पत्नी मुने ! मम । येन ते कृत्यमस्त्याशु तद्गृहाणार्घ्यमुत्तमम्॥८.