मार्कण्डेयपुराणम् प्रथमोऽध्यायः आरम्भमङ्गलम् यद्योगिभिर्भवभयार्तिविनाशयोग्यम् आसाद्य वन्दितमतीव विवक्तचित्तैः । तद्वः पुनातु हरिपादसरोजयुग्मम् अविर्भवत्क्रमविलङ्घितभूर्भुवः स्वः॥मंगल
पायात् स वः सकलकल्मषभेददक्षः क्षीरोदकुक्षिफणिभोगनिविष्टमूर्तिः । श्वासावधूतसलिलोत्कणिकाकरालः सिन्धुः प्रनृत्यमिव यस्य करोति सङ्गात्॥मंगल
नारायणं समस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥मंगल
त्रिदशानां यथा विष्णुर्द्विपदां ब्राह्मणो यथा । भूषणानाञ्च सर्वेषां यथा चूडामणिर्वरः॥१.
यथायुधानां कुलिशमिन्द्रियाणां यथा मनः । तथेह सर्वशास्त्रणां महाभारतमुत्तमम्॥१.
अत्रार्थश्चैव धर्मश्च कामो मोक्षश्च वर्ण्यते । परस्परानुबन्धाश्च सानुबन्धाश्च ते पृथक्॥१.
धर्मशास्त्रमिदं श्रेष्ठमर्थशास्त्रमिदं परम् । कामशास्त्रमिदं चाग्र्यं मोक्षशास्त्रं तथोत्तमम्॥१.
चतुराश्रमधर्माणामाचारस्थितिसाधनम् । प्रोक्तमेतन्महाभाग वेदव्यासेन धीमता॥१.
तथा तात कृतं ह्येतद् व्यासेनोदारकर्मणा । यथा व्याप्तं महाशास्त्रं विरोधैर्नाभिभूयते॥१.
व्यासवाक्यजलौघेन कुतर्कतरुहारिणा । वेदशैलावतीर्णेन नीरजस्का मही कृता॥१.
कलशब्दमहाहंसं माख्यानपराम्बुजम् । कथाविस्तीर्णसलिलं कार्ष्ण वेदमहाह्रदम्॥१.
तदिदं भारताख्यानं बह्विर्थं श्रुतिविस्तरम् । तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः॥१.
कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः । वासुदेवो जगत्सूति-स्थिति-संयमकारणम्॥१.
कस्माच्च पाण्डुपुत्त्राणामेका सा द्रुपदात्मजा । पञ्चानां महीषी कृष्णा ह्यत्र नः संशयो महान्॥१.
भेषजं ब्रह्महत्याया बलदेवो महाबलः । तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः॥१.
कथञ्च द्रौपदेयास्तेऽकृतदारा महारथाः । पाण्डुनाथा महात्मानो वधमापुरनाथवत्॥१.
एतत्सर्वं विस्तरशो ममाख्यातुमिहार्हसि । भवन्तो मूढबुद्धीनामवबोधकराः सदा॥१.
इति तस्य वचः श्रुत्वा मार्कण्डेयो माहमुनिः । दशाष्टदोषरहितो वक्तुं समुपचक्रमे॥१.
मार्कण्डेय उवाच क्रियाकालोऽयमस्माकं समप्राप्तो मुनिसत्तम । विस्तरे चापि वक्तव्ये नैष कालः प्रशस्यते॥१.
ये तु वक्ष्यन्ति वक्ष्येऽद्य तानहं जैमिने तव । तथा च नष्टसन्देहं त्वां करिष्यन्ति पक्षिणः॥१.
पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा । द्रोणपुत्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्रचिन्तकाः॥१.
वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः । विन्ध्यकन्दरमध्यस्थास्तानुपास्य च पृच्छ च॥१.
एवमुक्तस्तदा तेन मार्कण्डेयेन धीमता । प्रत्युवाचर्षिशार्दूलो विस्मयोत्फुल्ललोचनः॥१.
जैमिनिरुवाच अत्यद्भुतमिदं ब्रह्मन् खगवागिव मानुषी । यत् पक्षिणस्ते विज्ञानमापुरत्यन्तदुर्लभम्॥१.
तिर्यग्योन्यां यदि भवस्तेषां ज्ञानं कुतोऽभवत् । कथञ्च द्रोणतनयाः प्रोच्यन्ते ते पतत्रिणः॥१.
कश्च द्रोणः प्रविख्यातो यस्य पुत्रचतुष्टयम् । जातं गुणवतां तेषां धर्मज्ञानं महात्मनाम्॥१.
मार्कण्डेय उवाच शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा । शक्रस्याप्यसरसां चैव नारदस्य च सङ्गमे॥१.
नारदो नन्दनेऽपश्यत् पुंश्चलीगणमध्यगम् । शक्रं सुराधिराजानं तन्मुखासक्तलोचनम्॥१.
स तेनर्षिवरिष्ठेन दृष्टमात्रः शचीपतिः । समुत्तस्थौ स्वकं चास्मै ददावासनमादरात्॥१.
तं दृष्ट्वा बलवृत्रघ्नमुत्थितं त्रिदशाङ्गनाः । प्रणेमुस्ताश्च देवर्षि विनयावनताः स्थिताः॥१.