नमश्चेन्द्रियपत्राणां लेलिहानाय स्रग्विणे विश्वाय विश्वरूपाय विश्वतः शिरसे नमः
सर्वतः पाणिपादाय रुद्रायाप्रतिमाय च नमो हव्याय कव्याय हव्यवाहाय वै नमः
नमः सिद्धाय मेध्याय इष्टायेज्यापराय च सुवीराय सुघोराय अक्षोभ्यक्षोभणाय च
सुप्रजाय सुमेधाय दीप्ताय भास्कराय च नमो बुद्धाय शुद्धाय विस्तृताय मताय च
नमः स्थूलाय सूक्ष्माय दृश्यादृश्याय सर्वशः वर्षते ज्वलते चैव वायवे शिशिराय च
नमस्ते वक्रकेशाय ऊरुवक्षःशिखाय च नमो नमः सुवर्णाय तपनीयनिभाय च
विरूपाक्षाय लिङ्गाय पिङ्गलाय महौजसे वृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च
नमो धूम्राय श्वेताय कृष्णाय लोहिताय च पिशिताय पिशङ्गाय पीताय च निषङ्गिणे
नमस्ते सविशेषाय निर्विशेषाय वै नमः नम ईज्याय पूज्याय उपजीव्याय वै नमः
नमः क्षेम्याय वृद्धाय वत्सलाय नमोनमः नमो भूताय सत्याय सत्यासत्याय वै नमः
नमो वै पद्मवर्णाय मृत्युघ्नाय च मृत्यवे नमो गौराय श्यामाय कद्रवे लोहिताय च
महासंध्याभ्रवर्णाय चारुदीप्ताय दीक्षिणे नमः कमलहस्ताय दिग्वासाय कपर्दिने
अप्रमाणाय सर्वाय अव्ययायामराय च नमो रूपाय गन्धाय शाश्वतायाक्षताय च
पुरस्ताद्बृंहते चैव विभ्रान्ताय कृताय च दुर्गमाय महेशाय क्रोधाय कपिलाय च
तर्क्यातर्क्यशरीराय बलिने रंहसाय च सिकत्याय प्रवाह्याय स्थिताय प्रसृताय च
सुमेधसे कुलालाय नमस्ते शशिखण्डिने चित्राय चित्रवेषाय चित्रवर्णाय मेधसे
चेकितानाय तुष्टाय नमस्ते निहिताय च नमः क्षान्ताय दान्ताय वज्रसंहननाय च
रक्षोघ्नाय विषघ्नाय शितिकण्ठोर्ध्वमन्यवे
लेलिहाय कृतान्ताय तिग्मायुधधराय च
प्रमोदाय संमोदाय यतिवेद्याय ते नमः अनामयाय सर्वाय महाकालाय वै नमः
प्रणवप्रणवेशाय भगनेत्रान्तकाय च मृगव्याधाय दक्षाय दक्षयज्ञान्तकाय च
सर्वभूतात्मभूताय सर्वेशातिशयाय च पुरघ्नाय सुशस्त्राय धन्विने ऽथ परश्वधे
पूषदन्तविनाशाय भगनेत्रान्तकाय च कामदाय वरिष्ठाय कामाङ्गदहनाय च
रङ्गे करालवक्त्राय नागेन्द्रवदनाय च दैत्यानामन्तकेशाय दैत्याक्रन्दकराय च
हिमघ्नाय च तीक्ष्णाय आर्द्रचर्मधराय च श्मशानरतिनित्याय नमो ऽस्तूल्मुकधारिणे
नमस्ते प्राणपालाय मुण्डमालाधराय च प्रहीणशोकैर्विविधैर् भूतैः परिवृताय च
नरनारीशरीराय देव्याः प्रियकराय च जटिने मुण्डिने चैव व्यालयज्ञोपवीतिने
नमो ऽस्तु नृत्यशीलाय उपनृत्यप्रियाय च मन्यवे गीतशीलाय मुनिभिर् गायते नमः
कटकटाय तिग्माय अप्रियाय प्रियाय च विभीषणाय भीष्माय भगप्रमथनाय च
सिद्धसंघानुगीताय महाभागाय वै नमः नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च