विद्यानां प्रभवे चैव विद्याधिपतये नमः नमो व्रताधिपतये व्रतानां प्रभवे नमः
मन्त्राणां प्रभवे तुभ्यं मन्त्राधिपतये नमः पितॄणां पतये चैव पशूनां पतये नमः
वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च नमः पशूनां पतये गोवृषेन्द्रध्वजाय च
प्रजापतीनां पतये सिद्धीनां पतये नमः दैत्यदानवसंघानां रक्षसां पतये नमः
गन्धर्वाणां च पतये यक्षाणां पतये नमः गरुडोरगसर्पाणां पक्षिणां पतये नमः
सर्वगुह्यपिशाचानां गुह्याधिपतये नमः गोकर्णाय च गोप्त्रे च शङ्कुकर्णाय वै नमः
वराहायाप्रमेयाय ऋक्षाय विरजाय च नमः सुराणां पतये गणानां पतये नमः
अंभसां पतये चैव ओजसां पतये नमः नमो ऽस्तु लक्ष्मीपतये श्रीपाय क्षितिपाय च
बलाबलसमूहाय अक्षोभ्यक्षोभणाय च दीप्तशृङ्गैकशृङ्गाय वृषभाय ककुद्मिने
नमः स्थैर्याय वपुषे तेजसानुव्रताय च अतीताय भविष्याय वर्तमानाय वै नमः
सुवर्चसे च वीर्याय शूराय ह्यजिताय च वरदाय वरेण्याय पुरुषाय महात्मने
नमो भूताय भव्याय महते प्रभवाय च जनाय च नमस्तुभ्यं तपसे वरदाय च
अणवे महते चैव नमः सर्वगताय च नमो बन्धाय मोक्षाय स्वर्गाय नरकाय च
नमो भवाय देवाय इज्याय याजकाय च प्रत्युदीर्णाय दीप्ताय तत्त्वायातिगुणाय च
नमः पाशाय शस्त्राय नमस्त्वाभरणाय च हुताय उपहूताय प्रहुतप्राशिताय च
नमो ऽस्त्विष्टाय पूर्ताय अग्निष्टोमद्विजाय च सदस्याय नमश्चैव दक्षिणावभृथाय च
अहिंसायाप्रलोभाय पशुमन्त्रौषधाय च नमः पुष्टिप्रदानाय सुशीलाय सुशीलिने
अतीताय भविष्याय वर्तमानाय ते नमः सुवर्चसे च वीर्याय शूराय ह्यजिताय च
वरदाय वरेण्याय पुरुषाय महात्मने नमो भूताय भव्याय महते चाभयाय च
जरासिद्ध नमस्तुभ्यम् अयसे वरदाय च अधरे महते चैव नमः सस्तुपताय च
नमश्चेन्द्रियपत्राणां लेलिहानाय स्रग्विणे विश्वाय विश्वरूपाय विश्वतः शिरसे नमः
सर्वतः पाणिपादाय रुद्रायाप्रतिमाय च नमो हव्याय कव्याय हव्यवाहाय वै नमः
नमः सिद्धाय मेध्याय इष्टायेज्यापराय च सुवीराय सुघोराय अक्षोभ्यक्षोभणाय च
सुप्रजाय सुमेधाय दीप्ताय भास्कराय च नमो बुद्धाय शुद्धाय विस्तृताय मताय च
नमः स्थूलाय सूक्ष्माय दृश्यादृश्याय सर्वशः वर्षते ज्वलते चैव वायवे शिशिराय च
नमस्ते वक्रकेशाय ऊरुवक्षःशिखाय च नमो नमः सुवर्णाय तपनीयनिभाय च
विरूपाक्षाय लिङ्गाय पिङ्गलाय महौजसे वृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च
नमो धूम्राय श्वेताय कृष्णाय लोहिताय च पिशिताय पिशङ्गाय पीताय च निषङ्गिणे
नमस्ते सविशेषाय निर्विशेषाय वै नमः नम ईज्याय पूज्याय उपजीव्याय वै नमः
नमः क्षेम्याय वृद्धाय वत्सलाय नमोनमः नमो भूताय सत्याय सत्यासत्याय वै नमः