यथैष पर्वतो मेरुर् देवलोको ह्युदाहृतः तस्य चेदं हि माहात्म्यं विद्धि देववरस्य ह
ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामंबुजेक्षणम् महादेवं महाभूतं भूतानां वरदं प्रभुम्
प्रणवेनाथ साम्ना तु नमस्कृत्य जगद्गुरुम् त्वां च मां चैव संक्रुद्धो निःश्वासान्निर्दहेदयम्
एवं ज्ञात्वा महायोगम् अभ्युत्तिष्ठन्महाबलम् अहं त्वामग्रतः कृत्वा स्तोष्याम्यनलसप्रभम्
ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः अतीतैश् च भविष्यैश् च वर्तमानैस्तथैव च
नामभिश्छान्दसैश्चैव इदं स्तोत्रमुदीरयत् नमस्तुभ्यं भगवते सुव्रतानन्ततेजसे
नमः क्षेत्राधिपतये बीजिने शूलिने नमः सुमेढ्रायार्च्यमेढ्राय दण्डिने रूक्षरेतसे
नमो ज्येष्ठाय श्रेष्ठाय पूर्वाय प्रथमाय च नमो मान्याय पूज्याय सद्योजाताय वै नमः
गह्वराय घटेशाय व्योमचीरांबराय च नमस्ते ह्यस्मदादीनां भूतानां प्रभवे नमः
वेदानां प्रभवे चैव स्मृतीनां प्रभवे नमः प्रभवे कर्मदानानां द्रव्याणां प्रभवे नमः
नमो योगस्य प्रभवे सांख्यस्य प्रभवे नमः नमो ध्रुवनिबद्धानाम् ऋषीणां प्रभवे नमः
ऋक्षाणां प्रभवे तुभ्यं ग्रहाणां प्रभवे नमः वैद्युताशनिमेघानां गर्जितप्रभवे नमः
महोदधीनां प्रभवे द्वीपानां प्रभवे नमः अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः
नमो नदीनां प्रभवे नदानां प्रभवे नमः महौषधीनां प्रभवे वृक्षाणां प्रभवे नमः
धर्मवृक्षाय धर्माय स्थितीनां प्रभवे नमः प्रभवे च परार्धस्य परस्य प्रभवे नमः
नमो रसानां प्रभवे रत्नानां प्रभवे नमः क्षणानां प्रभवे चैव लवानां प्रभवे नमः
अहोरात्रार्धमासानां मासानां प्रभवे नमः ऋतूनां प्रभवे तुभ्यं संख्यायाः प्रभवे नमः
प्रभवे चापरार्धस्य परार्धप्रभवे नमः नमः पुराणप्रभवे सर्गाणां प्रभवे नमः
मन्वन्तराणां प्रभवे योगस्य प्रभवे नमः चतुर्विधस्य सर्गस्य प्रभवे ऽनन्तचक्षुषे
कल्पोदयनिबन्धानां वातानां प्रभवे नमः नमो विश्वस्य प्रभवे ब्रह्माधिपतये नमः
विद्यानां प्रभवे चैव विद्याधिपतये नमः नमो व्रताधिपतये व्रतानां प्रभवे नमः
मन्त्राणां प्रभवे तुभ्यं मन्त्राधिपतये नमः पितॄणां पतये चैव पशूनां पतये नमः
वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च नमः पशूनां पतये गोवृषेन्द्रध्वजाय च
प्रजापतीनां पतये सिद्धीनां पतये नमः दैत्यदानवसंघानां रक्षसां पतये नमः
गन्धर्वाणां च पतये यक्षाणां पतये नमः गरुडोरगसर्पाणां पक्षिणां पतये नमः
सर्वगुह्यपिशाचानां गुह्याधिपतये नमः गोकर्णाय च गोप्त्रे च शङ्कुकर्णाय वै नमः
वराहायाप्रमेयाय ऋक्षाय विरजाय च नमः सुराणां पतये गणानां पतये नमः
अंभसां पतये चैव ओजसां पतये नमः नमो ऽस्तु लक्ष्मीपतये श्रीपाय क्षितिपाय च
बलाबलसमूहाय अक्षोभ्यक्षोभणाय च दीप्तशृङ्गैकशृङ्गाय वृषभाय ककुद्मिने
नमः स्थैर्याय वपुषे तेजसानुव्रताय च अतीताय भविष्याय वर्तमानाय वै नमः